Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 459
________________ आ. श्रीजिनदासगणिविरचितचूर्णि हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३४४ यथाविहितं प्रत्ययः, ठक्, वास्त्रिक: । एवं तंतु (ती ?) वायनं (णं) शिल्पमस्य तान्त्रिकः । इह तुण्णा त्ति भणितम्, न चात्र तद्धितप्रत्ययो दृश्यते, कथं तद्धितः ? उच्यतेतद्धितप्रत्ययप्राप्तिमात्रमङ्गीकृत्योक्तम्, प्राप्तिश्च न तद्धितार्थेन विना भवति, अतस्तद्धितार्थः । तद्धितः प्रत्ययस्तर्हि न बाधित: ? उच्यते - लोकरूढेन वचनेन, यतस्तेनार्थ: प्रतीयते, येन 5 चार्थः प्रतीयते स शब्दः, अन्यः अपशब्दः, अथवाऽस्मादेव वचनादेवंजातीयास्तद्धिता इति तद्धितसंज्ञा। श्लाघातद्धितनाम श्रवण इत्यादि, अस्मादेव सूत्रनिबन्धनात् श्लाघार्थस्तद्धितार्थ इति । संयोगतद्धितमाह-राज्ञः श्वशुर इत्यादावप्यस्मादेव सूत्रनिंबन्धनात् तद्धितार्थतेति। चित्रं च शब्दप्राभृतम्, अप्रत्यक्षं च न इत्यतो न भावनां विद्मः । १० 10 समीपतद्धितनाम - गिरेः समीपे नगरं गिरिनगरम् अत्र अदूरभवश्च [पा० ४/२/७०] इत्यण् न भवति, गिरिनगरमित्येव प्रसिद्धत्वात्, विदिशायाः अदूरभवं नगरं अदूरभवश्च [ पा० ४/२/७०] इत्यण् वैदिशम्, अत्र अण् भवति, एवं प्रसिद्धत्वात् । संवूहतद्धितनाम तरंगवतिकार इत्यादि, संवूहो ग्रन्थसन्दर्भकरणम्, शेषं पूर्ववद्भावनीयमिति। ऐश्वर्यतद्धितनाम राजेत्यादि, अत्रापि राजादिशब्दनिबन्धनमैश्वर्यमवगन्तव्यम् । शेषं 15 सूत्रोपन्यासज्ञापकसिद्धमेव । अपत्यतद्धितनाम - सुप्रसिद्धेनाऽप्रसिद्धं विशेष्यते - मात्रा पुत्रः, पित्रा पुत्रः, यथा आश्वलायनः। पुत्रेण माता, इह पुत्रेण माता, तंजहा - तित्थगरमाता चक्कवट्टिमातेत्यादि, तदेतत् ताद्धितम् । से किं तं धातूए ? २, भू सत्तायां परस्मैभाष: [ पा०धा० १] इत्यादि, तत्र भू इत्ययं 20 धातुः सत्तायामर्थे वर्त्तते, अतो [भू ? ] इत्ययं प्रमाणभावनाम । नैरुक्तिकं निगदसिद्धम्, भावप्रमाणनामता चास्य भावप्रधानशब्दनयगोचरत्वात्, गुरवस्तु व्याचक्षते समासादिनाम्ना गुणाभिधानादिति भावः । अनेनैव चोपाधिना शेषभेदो भावनीय इति । एवं यथागमं मया अपौनरुक्त्यं दर्शितम्, अन्यथाऽपि सूक्ष्मधिया भावनीयमेव, अनन्तगम-पर्यायत्वात् सूत्रस्य । तदेतत् प्रमाणनाम, [ तदेतद्दशनाम ], तदेतन्नामेति 25 नामेति मूलद्वारमुक्तम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540