________________
अनुयोगद्वारसूत्रम् [सू० २३३-२५९]
२९९
एषामेवौदयिकादिभावानांद्वयादिमेलापकः, सएव तेन वा निर्वृत्त:सान्निपातिकः। तथा चाह - एएसिंचवेत्यादि। एषामौदयिकादीनां पञ्चानांभावानां द्विक-त्रिक-चतुष्क-पञ्चकसंयोगैर्ये षड्विंशतिर्भङ्गाः भवन्ति, ते सर्वेऽपि सान्निपातिको भाव इत्युच्यते । एतेषु मध्ये जीवेषु नारकादिषु षडेव भङ्गाः सम्भवन्ति, शेषास्तु विंशतिर्भङ्गका रचनामात्रेणैव भवन्ति, न पुन: क्वचित् सम्भवन्ति, अत:प्ररूपणामात्रतयैवतेअवगन्तव्याः, एतत्सर्वंपुरस्ताद्व्यक्तीकरिष्यते, 5 कियन्त: पुनस्ते द्वयादिसंयोगा: प्रत्येकंभवन्ति? इत्याह - तत्थणंदसदुगसंजोगा इत्यादि, पञ्चानामौदयिकादिपदानां दश द्विकसंयोगाः, दशैव च त्रिकसंयोगा: पञ्च चतु:संयोगा:, एकस्तु पञ्चकसंयोग: संपद्यत इति सर्वेऽपि षड्विंशतिः।
तत्र के पुनस्ते दश द्विकसंयोगा इति जिज्ञासायांप्राह - तत्थणंजेते दसदुगसंयोगा ते णं इमे इत्यादि।
10 नामाधिकारादित्थमाह - अस्ति तावत् सन्निपातिकभावान्तर्वति नाम, विभक्तिलोपादौदयिकौपशमिकलक्षणभावद्वयनिष्पन्नमित्येको भङ्गः, एवमन्येनाप्युपरितनभावत्रयेण सहसंयोगादौदयिकेन चत्वारो द्विकयोगालब्धाः, ततस्तत्परित्यागे औपशमिकस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः, तत्परिहारे क्षायिकस्योपरितनभावद्वयमीलनायां लब्धौद्वौ, ततस्तं विमुच्यक्षायोपशमिकस्यपारिणामिकमीलने लब्धएक इति 15 सर्वेऽपि दश।
एवं सामान्यतो द्विकसंयोगभङ्गकेषु दर्शितेषु विशेषतस्तत्स्वरूपमजानन् विनेयः पृच्छति - कतरेसे णामे उदइए? इत्यादि।अत्रोत्तरम् - उदए त्तिमणूसे इत्यादि, औदयिके भावे मनुष्यत्वं मनुष्यगतिरिति तात्पर्यम्, उपलक्षणमात्रं चेदम् , तिर्यगादिगतिजातिशरीरनामादिकर्मणामप्यत्र सम्भवात्। उपशान्तास्तु कषाया औपशमिके 20 भाव इति गम्यते, अत्राप्युदाहरणमात्रमेतत्, दर्शनमोहनीय-नोकषायमोहनीययोरप्यौपशमिकत्वसम्भवात्। एतन्निगमयति - एसणंसेणामे उदइएउवसमनिप्फण्णे त्ति, णमिति वाक्यालङ्कारे, एतत्तन्नाम यदुद्दिष्टं प्रागौदयिकौपशमिकभावद्वयनिष्पन्नमिति प्रथमद्विकयोगभङ्गकव्याख्यानम्। अयं च द्विकयोगविवक्षामात्रत एव संपद्यते, न पुनरीदृशो भङ्ग: क्वचिजीवे संभवति। तथाहि- यस्यौदयिकी मनुष्यगतिरौपशमिका: कषाया भवन्ति 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org