________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २९८
अस्त्येव, कारणद्रव्यस्यैव नूतनसुरादिरूपेण परिणतः, अन्यथा कार्यानुत्पत्तिप्रसङ्गात्, अत्र बहु वक्तव्यं तत्तु नोच्यते, स्थानान्तरवक्तव्यत्वादस्यार्थस्येति । अभ्राणिसामान्येन प्रतीतान्येव। अभ्रवृक्षास्तु तान्येव वृक्षाकारपरिणतानि। सन्ध्याकाल-नीलाद्यभ्रपरिणतिरूपाप्रतीतैव। गन्धर्वनगराण्यपि सुरसद्म-प्रासादोपशोभितनगराकारतया तथाविधनभ:परिणतपुद्गलराशिरूपाणिप्रतीतान्येव। उल्कापाताअपिव्योमसम्मूर्च्छितज्वलनपतनरूपा:प्रसिद्धा एव । दिग्दाहास्तु अन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्बरप्रतिभासरूपा: प्रतिपत्तव्याः। गर्जितविद्युनिर्घाता: प्रतीताः। यूपकास्तु संझाच्छेयावरणो यजूयओ सुक्के दिण तिनी आवश्यकनि० १३३५]ति गाथादलप्रतिपादितस्वरूपा आवश्यकादवसेयाः।
यक्षादीप्तकानि नभोदृश्यमानाग्निपिशाचा:।धूमिका रूक्षा प्रविरला धूमाभा प्रतिपत्तव्या। 10 महिका तु स्निग्धा घना, स्निग्धत्वादेव भूमौ पतिता सार्द्रतृणादिदर्शनद्वारेण लक्ष्यते ।
रजउद्घातो रजस्वला दिशः । चन्द्र-सूर्योपरागा राहुग्रहणानि, बहुवचनं चात्रार्द्धतृतीयद्वीपसमुद्रवर्तिचन्द्रार्काणां युगपदुपरागभावाद् मन्तव्यमिति चूर्णिकारः । चन्द्र-सूर्यपरिवेषा: चन्द्रादित्ययोः परितो वलयाकारपुद्गलपरिणतिरूपा: सुप्रतीता एव । प्रतिचन्द्रः उत्पातादिसूचको द्वितीयश्चन्द्रः । एवं प्रतिसूर्योऽपि । इन्द्रधनुः प्रसिद्धमेव । 15 उदकमत्स्यास्तु इन्द्रधनु:खण्डान्येव।कपिहसितानिअकस्मान्नभसिज्वलद्भीमशब्दरूपाणि।
अमोघा: सूर्यबिम्बादध: कदाचिदुपलभ्यमानशकटोर्द्धिसंस्थितश्यामादिरेखाः । वर्षाणि भरतादीनि । वर्षधरास्तु हिमवदादयः । पाताला: पातालकलशाः । शेषास्तु ग्रामादय: प्रसिद्धा एव । अत्राह- ननु वर्षधरादयः शाश्वतत्वात् न कदाचित् तद्भावं मुञ्चन्ति, तत् कथं
सादिपारिणामिकभाववर्तित्वं तेषाम्, ? नैतदेवम्, तदाकारमात्रतयैव हि तेऽवतिष्ठमाना: 20 शाश्वता उच्यन्ते, पुद्गलास्त्वसङ्खयेयकालादूर्ध्वं न तेषुत एवावतिष्ठन्ते, किन्त्वपरापरे तद्भावेन
परिणमन्ति तावत्कालार्ध्वं पुद्गलानामेकपरिणामेनावस्थिते: प्रागेव निषिद्धत्वादिति सादिपारिणामिकतान विरुध्यते। अनादिपारिणामिकेतु धर्मास्तिकायादयः, तेषां तद्रूपतया अनादिकालात् परिणते: । वाचनान्तराण्यपि सर्वाण्युक्तानुसारतोभावनीयानि।सेत मित्यादि निगमनद्वयम्। 25 उक्त: पारिणामिकः, अथ सान्निपातिकं निर्दिशति - से किं तमित्यादि। सन्निपात:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org