________________
अनुयोगद्वारसूत्रम् [ सू० २३३-२५९]
२९७ तमाह- खाओवसमिता आभिणिबोहियणाणलद्धीत्यादि, आभिनिबोधिकज्ञानं मतिज्ञानं तस्य लब्धिः योग्यता स्वावरणकर्मक्षयोपशमसाध्यत्वात् क्षायोपशमिकी, एवं तावद् वक्तव्यं यावन्मन:पर्यायज्ञानलब्धिः, केवलज्ञानलब्धिस्तु स्वावरणकर्मणः क्षय एवोत्पद्यत इति नेहोक्ता। कुत्सितं ज्ञानमज्ञानम्, मतिरेवअज्ञानं मत्यज्ञानम्, कुत्सितत्वं चेह मिथ्यादर्शनोदयदूषितत्वात् द्रष्टव्यम्, दृष्टा च कुत्सार्थे नञो वृत्तिः, यथा कुत्सितं 5 शीलमशीलमिति, मत्यज्ञानस्यलब्धिः योग्यता, साऽपि स्वावरणक्षयोपशमेनैव निष्पद्यते। एवं श्रुताज्ञानलब्धिरपि वाच्या। भङ्गः प्रकारो भेद इत्यर्थः, स चेह प्रक्रमादवधेरेव गृह्यते, विरूप: कुत्सितो भङ्गो विभङ्गः, स एवार्थपरिज्ञानात्मकत्वात् ज्ञानं विभङ्गज्ञानम्, मिथ्यादृष्टिदेवादेरवधिर्विभङ्गज्ञानमुच्यते इत्यर्थः । इह च विशब्देनैव कुत्सितार्थप्रतीतेर्न नबो निर्देशः, तस्य लब्धि: योग्यता, साऽपिस्वावरणक्षयोपशमेनैवप्रादुरस्ति।एवं मिथ्यात्वादिकर्मण: 10 क्षयोपशमसाध्या: शेषा अपि सम्यग्दर्शनादिलब्धयो यथासम्भवं भावनीया: । नवरं बाला अविरताः, पण्डिताः साधवः, बालपण्डितास्तु देशविरताः, तेषां यथास्वं वीर्यलब्धिर्वीर्यान्तरायकर्मक्षयोपशमाद्भावनीया, इन्द्रियाणि चेह लब्ध्युपयोगरूपाणि भावेन्द्रियाणि गृह्यन्ते, तेषां च लब्धि: योग्यता मतिश्रुतज्ञानचक्षुरचक्षुर्दर्शनावरणक्षयोपशमजत्वात् क्षायोपशमिकीति भावनीयम् । आचारधरत्वादिपर्यायाणां च 15 श्रुतज्ञानप्रभवत्वात्, तस्य चतदावरणकर्मक्षयोपशमसाध्यत्वादाचारधरादिशब्दाइह पठ्यन्ते इति प्रतिपत्तव्यमिति। सेत्तमित्यादि निगमनद्वयम्।
अथपारिणामिकंभावमाश्रित्याह-से किंतमित्यादि।सर्वथाअपरित्यक्तपूर्वावस्थस्य यद्रूपान्तरेण भवनं परिणमनं स परिणाम:। तदुक्तम् – परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम्।
20 न च सर्वथा विनाश: परिणामस्तद्विदामिष्टः।।१।।[ ] इति । स एव तेनवा निवृत्त: पारिणामिकः ।सोऽपि द्विविध:सादिरनादिश्च। तत्र सादिपारिणामिको जुण्णसुरेत्यादिजीर्णसुरादीनाम्, जीर्णत्वपरिणामस्य सादित्वात् सादिपारिणामिकता। इह चोभयावस्थयोरप्यनुगतस्य सुराद्रव्यस्य नव्यतानिवृत्तौ जीर्णतारूपेण भवनं परिणाम इत्येवं सुखप्रतिपत्त्यर्थं जीर्णानां सुरादीनां ग्रहणम्, अन्यथा नवेष्वपि तेषु सादिपारिणामिकता 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org