________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २९६
शरीराङ्गोपाङ्ग-बन्धन-संघात-संहननानेकबोन्दिवृन्दसङ्घातास्तैर्विप्रमुक्तो य: स तथा । प्राक्तनेन शरीरशब्देन शरीराणां निबन्धनं नामकर्म गृहीतम्, बोन्दिवृन्दग्रहणेन तु तत्कार्यभूतशरीराणामेव ग्रहणमिति विशेष: । क्षीणम्अपगतं तीर्थकर-शुभ-सुभग-सुस्वराऽऽदेय-यश:कीर्त्यादिकं शुभं नाम यस्य स तथा । क्षीणम् अपगतं नरकगत्यशुभ-दुर्भगदुःस्वरा-ऽनादेया-ऽयश:कीर्त्यादिकमशुभं नाम यस्य स तथा । अनाम-निर्नामक्षीणनामादिशब्दास्तु पूर्वोक्तानुसारेण भावनीयाः । शुभाशुभनामविप्रमुक्त इति निगमनम् । गोत्रं द्विधा- उच्चैर्गोत्रं नीचैर्गोत्रं च । ततस्तत्क्षयसम्भवीनि क्षीणगोत्रादिनामान्युक्तानुसारतः सुखावसेयान्येव।दानान्तरायादिभेदादन्तरायं पञ्चधा, तत्क्षयनिष्पन्नानि च
क्षीणदानान्तरायादिनामान्यविषमाण्येव। तदेवमेकैकप्रकृतिक्षयनिष्पन्ननामानिप्रत्येकं निर्दिश्य 10 साम्प्रतं पुन: समुदितप्रकृत्यष्टकक्षयनिष्पन्नानि सामान्यतो यानि नामानि भवन्ति तान्याहसिद्धे इत्यादि, सिद्धसमस्तप्रयोजनत्वात् सिद्धः । बोधात्मकत्वादेव बुद्धः । बाह्याऽऽभ्यन्तर-ग्रन्थबन्धनमुक्तत्वात् मुक्तः। परिसमन्तात्सर्वप्रकारैः निर्वृतः सकलसमीहितार्थलाभप्रकर्षप्राप्तत्वात्शीतीभूतः परिनिर्वृतः।समस्तसंसारान्तकृत्त्वादन्तकृदिति। एकान्तेनैव
शारीर-मानसदुःखप्रहाणात् सर्वदुःखप्रहीण इति। सेत्त मित्यादि निगमनद्वयम्। 15 उक्तो द्विविधोऽपि क्षायिकः, अथक्षायोपशमिकमाह -से किं तमित्यादि।असावपि
द्विस्वरूप:-क्षयोपशमस्तनिष्पन्नश्च। तत्र विवक्षितज्ञानादिगुणविघातकस्य कर्मण उदयप्राप्तस्य क्षयः सर्वथाऽपगमः, अनुदीर्णस्य तु तस्यैवोपशमो विपाकत उदयाभाव इत्यर्थः, ततश्चक्षयोपलक्षित उपशमःक्षयोपशमः । ननु चौपशमिकेऽपि यददयप्राप्तं तत् सर्वथाक्षीणं
शेषं तु न क्षीणं नाप्युदयप्राप्तमतस्तस्योपशम उच्यत इत्यनयोः कः प्रतिविशेष: ? उच्यते, 20 क्षयोपशमावस्थे कर्मणि विपाकत एवोदयो नास्ति प्रदेशतस्त्वस्त्येव, उपशान्तावस्थायां तु
प्रदेशतोऽपिनास्त्युदय इत्येतावता विशेषः। तत्र चतुर्णांघातिकर्मणांकेवलज्ञानप्रतिबन्धकानां ज्ञानावरण-दर्शनावरण-मोहनीया-ऽन्तरायाणां यः क्षयोपशमरूप:क्षायोपशमिको भावः। णमिति पूर्ववत्, तद्यथेत्यादिना स्वत एवघातिकर्माणि विवृणोति।शेषकर्मणांतुक्षयोपशमो नास्त्येव, निषिद्धत्वात्। सेत्तमित्यादि निगमनम्। 25 तेन च क्षयोपशमेनोक्तस्वरूपेण निष्पन्न: क्षायोपशमिको भावोऽनेकधा भवति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org