________________
अनुयोगद्वारसूत्रम् [ सू० २३३-२५९]
२९५
सचपुनःकालान्तरभाविवेदनोऽपिस्यादित्याह-क्षीणवेदन: अपुन विवेदनः। निगमयन्नाहसुभासुभवेअणिज्जकम्मविप्पमुक्के त्ति। मोहनीयं द्विधा- दर्शनमोहनीयं चचारित्रमोहनीयं च। तत्र दर्शनमोहनीयं त्रिधा- सम्यक्त्व-मिश्र-मिथ्यात्वभेदात्, चारित्रमोहनीयं तु द्विधाक्रोधादिकषाय-हास्यादिनोकषायभेदात् । तत एतत्क्षयसम्भवीनि सूत्रलिखितानि क्षीणक्रोधादीनि नामानि सुबोधान्येव । नवरं माया-लोभौ प्रेम, क्रोध-मानौ तु द्वेषः । तथा 5 अमोहः अपगतमोहनीयकर्मा। सच व्यावहारिकैरल्पमोहोदयोऽपि निर्दिश्यते, अतआह - निर्गतो मोहान्निर्मोहः । स च पुन: कालान्तरभाविमोहोदयोऽपि स्यादुपशान्तमोहवत्, तद्व्यवच्छेदार्थमाह- क्षीणमोहः, अपुन विमोहोदय इत्यर्थः । निगमयतिमोहनीयकर्मविप्रमुक्त इति।नारकाद्यायुष्कभेदेनायुश्चतुर्द्धा, तत्क्षयसमुद्भवानि चनामानि सुगमानि । नवरमविद्यमानायुष्कोऽनायुष्कः । तद्भविकायु:क्षयमात्रेऽपि स्यादत उक्तं 10 निरायुष्कः । स च शैलेशी गत: किञ्चिदवतिष्ठमानायु:शेषोऽप्युपचारतः स्यादत उक्तं क्षीणायुरिति।आयुःकर्मविप्रमुक्त इति निगमनम्।
नामकर्म सामान्येन शुभाशुभभेदतो द्विविधम्, विशेषतस्तु गति-जातिशरीराङ्गोपाङ्गादिभेदाद् द्विचत्वारिंशदादिभेदं स्थानान्तरादवसेयम् । तत्रेह तत्क्षयभावीनि कियन्तिचिन्नामानि अभिधत्ते- गइ-जाइ-सरीरेत्यादि, इह प्रक्रमान्नामशब्दो यथासम्भवं 15 द्रष्टव्यः । ततश्च नारकादिगतिचतुष्टयहेतुभूतं गतिनाम । एकेन्द्रियादिजातिपञ्चककारणं जातिनाम । औदारिकादिशरीरपञ्चकनिबन्धनं शरीरनाम । औदारिक-वैक्रियाऽऽहारकशरीरत्रयाङ्गोपाङ्गनिर्वृत्तिकारणमङ्गोपाङ्गनाम । काष्ठादीनां लाक्षादिद्रव्यमिव शरीरपञ्चकपुद्गलानां परस्परं बन्धहेतुबन्धननाम । तेषामेव पुद्गलानां परस्परं बन्धनार्थमन्योन्यसांनिध्यलक्षणसङ्घातकारणं काष्ठसन्निकर्षकृत् तथाविधकर्मकर इव 20 सङ्घातनाम । कपाटादीनां लोहपट्टादिरिवौदारिकशरीरास्थ्नां परस्परबन्धविशेषनिबन्धनं संहनननाम। एतच्च बन्धनादिपदत्रयं क्वचिद्वाचनान्तरे न दृश्यत एव। बोन्दिस्तनु: शरीरमिति पर्यायाः, अनेकाश्चतानानाभवेषुबह्वीनां तासांभावात् तस्मिन्नेववाभवेजघन्यतोऽप्यौदारिकतैजस-कार्मणलक्षणानां तिसृणां भावात् बोन्द्यश्चानेकबोन्द्य:, तासां वृन्दं पटलम्, तदेव पुद्गलसङ्घातरूपत्वात् सङ्घातोऽनेकबोन्दिवृन्दसङ्घातः । गत्यादीनां च द्वन्द्वे गति-जाति- 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org