________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
२९४
द्विधा - क्षयस्तनिष्पन्नश्च, तत्र खए णं ति, णमिति पूर्ववत्, क्षयोऽष्टानां ज्ञानावरणादिकर्मप्रकृतीनां सोत्तरभेदानां सर्वथाऽपगमलक्षण:, स एव स्वार्थिकेकण्प्रत्यये क्षायिकः । क्षयनिष्पन्नस्तु तत्फलरूपः । तत्र च सर्वेष्वपि कर्मसु सर्वथा क्षीणेषु ये पर्याया: संभवन्ति तान् क्रमेण दिदर्शयिषुर्ज्ञानावरणक्षये तावद् ये भवन्ति तानाह - उप्पण्णणाणदंसणेत्यादि। उत्पन्ने श्यामतापगमेनादर्शमण्डलप्रभावत् सकलतदावरणापगमादभिव्यक्ते ज्ञान-दर्शने धरति यः स तथा । अरहा अविद्यमानरहस्यः, नास्य गोप्यं किञ्चिदस्तीति भावः । आवरणशत्रुजेतृत्वाग्जिन: । केवलं सम्पूर्ण ज्ञानमस्यास्तीति केवली । क्षीणमाभिनिबोधिकज्ञानावरणं यस्य स तथा । एवं नेयं यावत् क्षीणकेवलज्ञाना
वरणः । अविद्यमानमावरणं यस्य स विशुद्धाम्बरे श्वेतरोचिरिवाऽनावरणः । तथा निर्गत 10 आगन्तुकादप्यावरणादारहितरोहिणीशवदेव निरावरणः। तथाक्षीणमेकान्तेनापुनर्भावितया
आवरणमस्येत्यपाकृतमलावरणजात्यमणिवत् क्षीणावरणः। निगमयन्नाह - ज्ञानावरणीयेन कर्मणा विविधम् अनेकैः प्रकारैः प्रकर्षणमुक्तो ज्ञानावरणीयकर्मविप्रमुक्तः। एकार्थिकानि वा एतान्यनावरणादिपदानि, अन्यथा वा नयमतभेदेन सुधिया भेदो वाच्यः । तदेवमेतानि
ज्ञानावरणीयक्षयापेक्षाणि नामान्युक्तानि, अथ दर्शनावरणीयक्षयापेक्षाणि तान्येवाह - 15 केवलदंसीत्यादि, केवलेनक्षीणावरणेनदर्शनेन पश्यतीति केवलदर्शी।क्षीणदर्शनावरणत्वादेव
सर्वपश्यतीति सर्वदर्शीत्येवं निद्रापञ्चक-दर्शनावरणचतुष्कक्षयसम्भवीन्यपराण्यपिनामान्यत्र पूर्वोक्तानुसारेण व्युत्पादनीयानि। नवरं निद्रापञ्चकस्वरूपमिदम् -
सुहपडिबोहो निद्दा दुहपडिबोहो य निद्दनिद्दा य।
पयला होइ ठियंस्सा पयलापयला य चंकमओ॥१॥[निशीथभा० १३३] 20
अइसंकिलिट्ठकम्माणुवेयणे होइ थीणगिद्धी उ।
महनिद्दा दिणचिंतियवावारपसाहणी पायं॥२॥[ ] अपरं च - अनावरणादिशब्दाः पूर्वं ज्ञानावरणाभावापेक्षाः प्रवृत्ताः, अत्र तु दर्शनावरणापगमापेक्षा इति विशेषः । वेदनीयं द्विधा - प्रीत्युत्पादकं सातमप्रीत्युत्पादकं
त्वसातम्, तत्क्षयापेक्षास्तु क्षीणसातवेदनीयादयः शब्दाः सुखोनेयाः । नवरमवेदनो 25 वेदनारहितः, सचव्यवहारतोऽल्पवेदनोऽप्युच्यते, ततः प्राह - निर्वेदन: अपगतसर्ववेदन:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org