________________
अनुयोगद्वारसूत्रम् [ सू० २३३-२५९]
.
.
२९३
अथाजीवोदयनिष्पन्नं निरूपयितुमाह -से किं तमित्यादि।ओरालियंवासरीरंति विशिष्टाकारपरिणतं तिर्यङ्-मनुष्यदेहरूपमौदारिकंशरीरम्, ओरालिअसरीरप्पओगेत्यादि,
औदारिकशरीरप्रयोगपरिणमितं वा द्रव्यम्, औदारिकशरीरस्य प्रयोगो व्यापारस्तेन परिणमितं स्वप्रायोग्यत्वाद्गृहीतं तत्तथा, तच्चवर्ण-गन्ध-रस-स्पर्शा-ऽऽनापानादिरूपंस्वत एवोपरिष्टा दर्शयिष्यति।वाशब्दौ परस्परसमुच्चये। एतद्वितयमप्यजीवे पुद्गलद्रव्य-लक्षणे 5
औदारिकशरीरनामकर्मोदयेन निष्पन्नत्वादजीवोदयनिष्पन्न औदयको भाव उच्यते। एवं वैक्रियशरीरादिष्वपि भावना कार्या । नवरं वैक्रियशरीरनामकर्माद्युदयजन्यत्वं यथास्वं वाच्यमिति । औदारिकादिशरीरप्रयोगेण यत् परिणम्यते द्रव्यं तत् स्वत एव दर्शयितुमाह - पओगपरिणामिएवण्णे इत्यादि, पञ्चानामपिशरीराणांप्रयोगेण व्यापारेणपरिणमितंगृहीतं वर्णादिकं शरीरे वर्णादिसम्पादकं द्रव्यमिदं द्रष्टव्यम् । उपलक्षणत्वाच्च वर्णादीनामपरमपि 10 यच्छरीरेसंभवत्यानापानादितत्स्वत एव दृश्यमिति।अत्राह - ननु यथा नारकत्वादय: पर्याया जीवे भवन्तीति जीवोदयनिष्पन्ने औदयिके पठ्यन्ते, एवं शरीराण्यपि जीव एव भवन्ति, अतस्तान्यपि तत्रैव पठनीयानि स्यु:, किमित्यजीवोदयनिष्पन्नेऽधीयन्ते ? अस्त्येतत, किन्त्वौदारिकादिशरीरनामकर्मोदयस्य मुख्यतया शरीरपुद्गलेष्वेव विपाकदर्शनात् तन्निष्पन्न
औदयिको भाव: शरीरलक्षणेऽजीव एव प्राधान्याद् दर्शित इत्यदोषः । सेत्तमित्यादि 15 निगमनत्रयम्।
__ उक्तो द्विविधोऽप्यौदयिकः, अथौपशमिकं निर्दिदिक्षुराह - से किं तं उवसमिए इत्यादि । अयमपि द्विविध: - उपशमस्तन्निष्पन्नश्च । तत्र उवसमे णं ति, णमिति वाक्यालङ्कारे, उपशम: पूर्वोक्तस्वरूपोमोहनीयस्यैवकर्मणोऽष्टाविंशतिभेदभिन्नस्योपशमश्रेण्यां द्रष्टव्यः, नशेषकर्मणाम्, मोहस्सेवोवसमो[ ] इति वचनात्, उपशम 20 एवौपशमिकः। उपशमनिष्पन्नेतु उवसंतकोहे इत्यादि, इहोपशान्तक्रोधादयो व्यपदेशा: क्वापि वाचनाविशेषे कियन्तोऽपि दृश्यन्ते, तत्र मोहनीयस्योपशमेन दर्शनमोहनीयं चारित्रमोहनीयं चोपशान्तं भवति, तदुपशान्ततायां च ये व्यपदेशाः संभवन्ति ते सर्वेऽप्यत्रादुष्टा न शेषा इति भावनीयम्। सेत्तमित्यादि निगमनद्वयम्।
निर्दिष्टो द्विविधोऽप्यौपशमिकः, अथ क्षायिकमाह - से किं तमित्यादि। एषोऽपि 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org