________________
आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति- ते- मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् २९२
[ हे० २३३ - २५९] से किं तं छनामे इत्यादि । अत्रौदयिकादयः षड् भावा: प्ररूप्यन्ते, तथा च सूत्रम् - उदइए इत्यादि । अत्राह - ननु नाम्नि प्रक्रान्ते तदभिधेयानामर्थानां भावलक्षणानां प्ररूपणमयुक्तमिति, नैतदेवम्, नाम-नामवतोरभेदोपचारात् तत्प्ररूपणस्याप्यदुष्टत्वात्, एवमन्यत्रापि यथासम्भवं वाच्यम् । तत्र ज्ञानावरणादीनामष्टानां 5 प्रकृतीनामात्मीयात्मीयस्वरूपेण विपाकतोऽनुभवनमुदयः, स एवौदयिकः, अथवा यथोक्तेनैवोदयेन निष्पन्न औदयिकः, भाव इति सामर्थ्याद् गम्यते । उपशमनमुपशमः कर्मणोऽनुदयाक्षीणावस्था भस्मपटलावच्छन्नाग्निवत्, स एव औपशमिक:, तेन वा निर्वृत्त औपशमिकः । क्षय: कर्मणोऽपगमः, स एव तेन वा निर्वृत्तः क्षायिकः । कर्मणो यथोक्तौ क्षयोपशमावेव ताभ्यां वा निर्वृत्तः क्षायोपशमिकः दरविध्यातभस्मच्छन्नवह्निवत् । 10 परिणमनं तेन तेन रूपेण वस्तूनां भवनं परिणाम:, स एव तेन वा निर्वृत्तः पारिणामिकः । अनन्तरोक्तानां द्वयादिभावानां मेलकः सन्निपात:, स एव तेन वा निर्वृत्तः सान्निपातिकः । तत्रामीषां प्रत्येकं स्वरूपनिरूपणार्थमाह से किं तं ओदइए इत्यादि । औदयिको भावो द्विविधः अष्टानां कर्मप्रकृतीनामुदयस्तन्निष्पन्नश्च । अयं चार्थ: प्रकारद्वयेन व्युत्पत्तिकरणादादावेव दर्शितः । उदयनिष्पन्नः पुनरपि द्विविधः - जीवे उदयनिष्पन्नो 15 जीवोदयनिष्पन्नः, अजीवे उदयनिष्पन्नोऽजीवोदयनिष्पन्नः ।
-
तत्रजीवोदयनिष्पन्नस्योदाहरणानि - णेरइए इत्यादि । इदमुक्तं भवति - कर्मणामुदयेनैव सर्वेऽप्येते पर्याया जीवे निष्पन्नाः, तद्यथा - नारकस्तिर्यङ् मनुष्य इत्यादि । अत्राह - ननु यद्येवमपरेऽपि निद्रापञ्चक- वेदनीय- हास्यादयो बहवः कर्मोदयजन्या जीवे पर्यायाः सन्ति, किमितिनारकत्वादयः कियन्तोऽप्युपन्यस्ताः ? सत्यम्, उपलक्षणत्वादमीषामन्येऽपि सम्भविनो 20 द्रष्टव्याः। अपरस्त्वाह - ननु कर्मोदयजनितानां नारकत्वादीनां भवत्विहोपन्यासो लेश्यास्तु कस्यचित् कर्मण उदये भवन्तीत्येतन्न प्रसिद्धं तत् किमितीह तदुपन्यासः ? सत्यम्, किन्तु योगपरिणामो लेश्याः, योगस्तु त्रिविधोऽपि कर्मोदयजन्य एव, ततो लेश्यानामपि तदुदयजन्यत्वं न विहन्यते । अन्ये तु मन्यन्ते कर्माष्टकोदयात् संसारस्थत्वा ऽसिद्धत्ववल्लेश्यावत्त्वमपि भावनीयमित्यलं विस्तरेण।तदर्थिना तु गन्धहस्तिवृत्तिरनुसर्तव्येति । सेत्तं जीवोदयनिप्फन्ने 25 त्ति निगमनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org