________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
३००
तस्यक्षायोपशमिकानीन्द्रियाणिपारिणामिकंजीवत्वं कस्यचित क्षायिकं सम्यक्त्वमित्येतदपि संभवति, तत् कथमस्य केवलस्य सम्भव: ? एवमेतद्व्याख्यानुसारेण शेषाअपिव्याख्येयाः, केवलंक्षायिक-पारिणामिकभावद्वयनिष्पन्नंनवमभङ्गं विहायापरेऽसम्भविनो द्रष्टव्याः। नवमस्तु सिद्धस्य संभवति, तथाहि - क्षायिके सम्यक्त्व-ज्ञाने पारिणामिकं तु जीवत्वमित्येतदेव 5 भावद्वयं तस्यास्ति नापरः । तस्मादयमेक: सिद्धस्य संभवति, शेषास्तु नव द्विकयोगा:
प्ररूपणामात्रमिति स्थितम्।अन्येषां हिसंसारिजीवानामौदयिकीगति:क्षायोपशमिकानीन्द्रियाणि पारिणामिकं तु जीवत्वमित्येतद् भावत्रयं जघन्यतोऽपि लभ्यत इति कथं तेषु द्विकयोगसम्भव: ? इति भावः।।
त्रिकयोगान्निर्दिदिक्षुराह - तत्थ णं जे ते दस तिगसंजोगा ते णं इमे इत्यादि। 10 एतेऽप्यौदयिकौपमिशमिक-क्षायिक-क्षायोपशमिक-पारिणामिकभावपञ्चकं भूम्यादा
वालिख्य तत आद्यभावद्वयस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः इत्यादिक्रमेण दशापि भावनीयाः । एतानेव स्वरूपतो विवरीषुराह - कयरे से णामे उदइए उवसमिए इत्यादि । व्याख्यापि पूर्वानुसारतोऽत्रापि कर्तव्या । नवरमत्रौदयिक-क्षायिक
पारिणामिकभावत्रयनिष्पन्नः पञ्चमोभङ्ग:केवलिन:संभवति।तथाहि - औदयिकी मनुष्यगतिः, 15 क्षायिकाणिज्ञान-दर्शन-चारित्राणि, पारिणामिकंतुजीवत्वमित्येते त्रयोभावास्तस्यभवन्ति।
औपशमिकस्त्विहनास्ति, मोहनीयाश्रयत्वेन तस्योक्तत्वात्, मोहनीयस्यचकेवलिन्यसम्भवात्, तथाक्षायोपशमिकोऽपिअत्रापास्यएव, क्षायोपशमिकानामिन्द्रियादिपदार्थानामस्यासम्भवात्, अतीन्द्रिया: केवलिनः[ ]इत्यादिवचनात्, तस्मात्पारिशेष्याद्यथोक्तभावत्रयनिष्पन्न:
पञ्चमोभङ्ग: केवलिनःसम्भवति। षष्ठस्त्वौदयिक-क्षायोपशमिक-पारिणामिकभावनिष्पन्नो 20 नारकादिगतिचतुष्टयेऽपि संभवति । तथाहि - औदयिकी अन्यतरा गतिः,
क्षायोपशमिकानीन्द्रियाणि, पारिणामिकं जीवत्वमित्येवमेतद् भावत्रयं सर्वास्वपि गतिषु जीवानां प्राप्यत इति । शेषास्त्वष्टौ त्रिकयोगा: प्ररूपणामात्रम्, क्वाप्यसम्भवादिति भावनीयम्।
चतुष्कसंयोगानिर्दिशन्नाह - तत्थ णं जे ते पंच चउक्कसंजोगा इत्यादि । 25 भङ्गकरचना अकृच्छ्रावसेयैव। इदानीं तानेव पञ्च भङ्गान् व्याचिख्यासुराह - कयरे से नामे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org