________________
|| दबन्धोपरमाच्चतुर्विधं ७, ततोऽपि तस्मिन्नेव सख्येयभागे क्षयमुपगच्छति सति क्रोधमानमायालोभसजवलनानां क्रमेण बन्धोपरमात्रिविधं ८ द्विविध ९ मेकविधं १० चेति, तस्याप्यनिवृत्तिकरणचरमसमये बन्धोपरमान्मोहनीयस्याबन्धकः । आयुषः सामान्येनैकविधं बन्धस्थानं चतुर्णामन्यतरत्, च्यादेयोगपद्येन बन्धाभावो विरोधादिति । नानो|ऽष्टौ बन्धस्थानानि, तद्यथा-त्रयोविंशतिस्तिर्यग्गतिप्रायोग्यं बनतस्तिर्यग्गतिरेकेन्द्रियजातिरौदारिकतैजसकार्मणानि हुण्डसंस्थानं वर्णगन्धरसस्पर्शास्तिर्यग्गतिप्रायोग्यानुपूर्वी अगुरुलघूपघातं स्थावरं बादरसूक्ष्मयोरन्यतरदपर्याप्तकं प्रत्येकसाधारणयोरन्यतरत् अस्थिरं अशुभं दुर्भगं अनादेयं अयशःकीर्तिनिर्माणमिति, इयमेकेन्द्रियापर्याप्तकप्रायोग्य बनतो मिथ्यादृष्टेर्भवति १, इयमेव पराघातोच्छाससहिता पञ्चविंशतिः, नवरमपर्याप्तकस्थाने पर्याप्तकमेव वाच्यं २, इयमेव चातपोद्योतान्यतरसमन्विता पइिंशतिः, नवरं बादरप्रत्येके एव वाच्ये ३, तथा देवगतिप्रायोग्यं बनतोऽष्टा|विंशतिः, तथाहि-देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिय ३ तैजस ४ कार्मणानि ५ शरीराणि समचतुरस्र ६ अङ्गो|पाङ्गं७ वर्णादिचतुष्टयं ११ आनुपूर्वी १२ अगुरुलघू १३ पघात १४ पराघात १५ उच्छासाः १६ प्रशस्तविहायोगतिः१७ त्रसं १८ बादरं १९ पर्याप्तकं २० प्रत्येकं २१ स्थिरोस्थिरयोरन्यतरत् २२ शुभाशुभयोरन्यतरत् २३ सुभगं २४ सुस्वरं २५ आदेय २६ यशाकीर्त्ययशाकीयोरन्यतरत् २७ निर्माणमिति २८, एषैव तीर्थकरनामसहिता एकोनत्रिंशत्, साम्प्रतं त्रिंशत्-देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिया ३ हारका ४ ङ्गोपाङ्ग ६ चतुष्टयं तैजस ७ कार्मणे ८ संस्थानमाद्यं ९
१ स्थिरं. २ शुभं.
SA-MANGALMORAMA-NAGAROGRAM