________________
चतुष्टयमपि योज्यं अन्यतरो वेदः ६ हास्यरतियुग्मम् अरतिशोकयुग्मं वा ८ भयं ९ जुगुप्सा १० चेति, भयजुगुप्सयोरन्यतराभावे नव, द्वयाभावेऽष्टौ, अनन्तानुबन्ध्यभावे सप्त, मिथ्यात्वाभावे पटू, अप्रत्याख्यानो दयाभावे पञ्च, प्रत्याख्यानावरणाभावे चत्वारि, परिवर्त्तमानयुगलाभावे सवलनान्यतरवेदोदये सति द्वे, वेदाभावे एकमिति, आयुषोऽप्येकमेवोदयस्थानं चतुर्णामायुषामन्यतरदिति, नाम्नो द्वादशोदयस्थानानि, तद्यथा - विंशतिः एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् नव अष्टौ चेति, तत्र संसारस्थानां सयोगिनां जीवानां दशोदयस्थानानि नाम्नो भवन्ति, अयोगिनां तु चरमद्वयमिति, अत्र च द्वादश ध्रुवोदयाः कर्मप्रकृतयः, तद्यथा - तैजसकार्म्मणे शरीरे २ वर्णगन्धरसस्पर्शचतुष्टय ६ अगुरुलघु ७ स्थिरं ८ अस्थिरं ९ शुभं १० अशुभं ११ निर्माण १२ मिति, तत्र विंशतिरतीर्थकर केवलिनः समुद्घातगतस्य कार्मणशरीरयोगिनो भवति, तद्यथा - मनुष्यगतिः १ पश्चेन्द्रियजातिः २ सं ३ बादरं ४ पर्याप्तकं ५ सुभगं ६ आदेयं ७ यशः कीर्त्तिरिति ८ ध्रुवोदय १२ सहिता विंशतिः २०, एकविंशत्यादीनि तूदयस्थानानि एकत्रिंशत्पर्यन्तानि जीवगुणस्थानभेदादनेकभेदानि भवन्ति, तानि चेह ग्रन्धगौरवभयात् प्रत्येकं नोच्यन्त इत्यत एकैकभेदावेदनं क्रियते, तत्रैकविंशतिः गतिः १ जातिः २ आनुपूर्वी ३ त्रसं ४ बादरं ५ पर्याप्तापर्याप्तयोरन्यतरत् ६ सुभगादुर्भगयोरन्यतरत् ७ आदेयानादेययोरन्यतरत् ८ यशः कीर्त्त्ययशः की योरन्यतरत् ९ एताश्च नव ध्रुवोदय १२ सहिता एकविंशतिः २१, चतुर्विंशतिस्तु तिर्यग्गतिः १ एकेन्द्रियजातिः २ औदारिकं ३ हुण्डसंस्थानं ४ उपघातं ५ प्रत्येकसाधारणयोरन्यतरत् ६ स्थावरं ७ सूक्ष्मबादरयोरन्यतरत् ८ दुर्भगं ९ अनादेयं १० अपर्याप्तकं ११ यशः कीर्त्ययशः
*छ