________________
| कर्म्मशत्रुजयसहायानितिकृत्वाऽपरीषहानेव मन्यते ॥ २१ ॥ ते पुनः कियन्तं कालं सोढव्या इत्याशङ्काव्युदासार्थमाह'यावज्जीवं ' यावत्प्राणधारणं तावत्सरीषहा उपसर्गाश्च सोढव्या इत्येतत् 'सङ्ख्याय'' ज्ञात्वा तानध्यासयेदिति, यदि - वा न मे यावज्जीवं परीषहोपसर्गा इत्येतत्सङ्ख्याय - ज्ञात्वाऽधिसहेत, यदिवा यावज्जीवमिति यावदेव जीवितं तावत्परीषहोपसर्गजनिता पीडेति, तत्पुनः कतिपय निमेषाऽवस्थायि एतदवस्थस्य ममात्यन्तमल्पमेवेत्यत एतत्सङ्ख्याय - ज्ञात्वा संवृतो यथानिक्षिप्तत्यक्तगात्रो 'देहभेदाय' शरीरत्यागायोत्थित इतिकृत्वा 'प्राज्ञः ' उचितविधानवेदी, यद्यत्कायपीडाकार्युपतिष्ठते तत्तत्सम्यगधिसहेत ॥ २२ ॥ एवंभूतं च साधुमुपलभ्य कश्चिद्राजादिर्भोगैरुपनिमन्त्रयेत्, तत्प्रतिविधानार्थमाहभेदनशीला भिदुराः - शब्दादयः कामगुणास्तेषु प्रभूततरेष्वपि 'न रज्येत्' न रागं यायात्, पाठान्तरं वा 'कामेसु बहुलेसुवि' इच्छामदनरूपेषु कामेषु बहुलेषु - अनल्पेष्वपीत्यर्थः, यद्यपि राजा राज्यकन्यादानादिनोपप्रलोभयेत् तथापि तत्र न गार्घ्यमियात्, तथा इच्छारूपो लोभ इच्छालोभः - चक्रवर्तीन्द्रत्वाद्यभिलाषादिको निदानविशेषस्तमसौ निर्जरापेक्षी न सेवेत, सुरर्द्धिदर्शनमोहितो बह्मदत्तवन्निदानं न कुर्यादित्यर्थः तथा चागमः - 'इहलोगासंसप्पओगे १ परलोगासंसप्पओगे २ जीवियासंसप्पयोगे ३ मरणासंसप्पयोगे ४ कामभोगासंसप्पयोगे ५ इत्यादि, 'वर्णः' संयमो मोक्षो वा स च सूक्ष्मो दुर्ज्ञेयत्वात्, पाठान्तरं वा - 'धुववन्नमित्यादि, ध्रुवः - अव्यभिचारी स चासौ वर्णश्च ध्रुववर्णस्तं संप्रेक्ष्य ध्रुवां वा शाश्वतीं यशःकीर्ति पर्यालोच्य कामेच्छालोभविक्षेपं कुर्यादिति ॥ २३ ॥ किं च - शाश्वता - यावज्जीवमपरिक्षया