Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
श्रीआचाराङ्गवृत्तिः (शी०)
उपधा०९ उद्देशकार
॥३०८॥
को इत्थ? अहमंसित्ति भिक्खु आह१ । अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ॥१२॥ इहलोके भवा ऐहलौकिकाः-मनुष्यकृताः के ते?-'स्पर्शाः' दुःखविशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादितान् दुःखविशेषानध्यासयति-अधिसहते, यदिवा इहैव जन्मनि ये दुःखयन्ति दण्डप्रहारादयः प्रतिकूलोपसर्गास्त ऐहलौ| किकाः, तद्विपर्यस्तास्तु पारलौकिकाः, 'भीमा' भयानका 'अनेकरूपाः' नानाप्रकाराः, तानेव दर्शयति-अपि सुरभिगन्धाः-म्रक्चन्दनादयो दुर्गन्धाः-कुथितकडेवरादयः, तथा शब्दाश्चानेकरूपा वीणावेणुमृदङ्गादिजनिताः, तथा कमेलकरसिताद्युत्थापितास्तांश्चाविकृतमना 'अध्यासयति' अधिसहते, 'सदा' सर्वकालं सम्यगितः समितः-पञ्चभिः समितिभिर्युक्तः, तथा स्पर्शान-दुःखविशेषानरतिं संयमे रति चोपभोगाभिष्वङ्गेऽभिभूय-तिरस्कृत्य 'रीयते' संयमानुष्ठाने व्रजति, 'माहणे'त्ति पूर्ववद् 'अवहुवादी' अबहुभाषी, एकद्विव्याकरणं क्वचिन्निमित्ते कृतवानिति भावः ॥ 'स' भगवानर्द्धत्रयोदश पक्षाधिकाः समा एकाकी विचरन् तत्र शून्यगृहादौ व्यवस्थितः सन् 'जनैः' लोकैः पृष्टः, तद्यथा-को भवान् ? किमत्र स्थितः? कुतस्त्यो वेत्येवं पृष्टोऽपि तूष्णींभावमभजत्, तथोपपत्याद्या अप्येकचरा-एकाकिन एकदा-कदाचिद्रात्रावहि वा पप्रच्छुः, अव्याहृते च भगवता कषायिताः ततो ज्ञानावृतदृष्टयो दण्डमुष्ट्यादिताडनतोऽनार्यत्वमाचरन्ति, भगवांस्तु तत्समाधि प्रेक्षमाणो धर्मध्यानोपगतचित्तः सन् सम्यक्तितिक्षते, किंभूतः?-'अप्रतिज्ञो' नास्य वैरनिर्यातनप्रतिज्ञा विद्यत इत्यप्रतिज्ञः॥कथं ते पप्रच्छुरिति दर्शयितुमाह-अयमन्तः-मध्ये कोऽत्र व्यवस्थितः, एवं सङ्केतागता दुश्चारिणः पृच्छन्ति कर्मकरादयो वा, तत्र नित्यवासिनो दुष्पणिहितमानसाः पृच्छन्ति, तत्र चैवं पृच्छतामेषां भगवा
॥३
०८॥

Page Navigation
1 ... 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668