Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
विहरिंसु ॥ ५ ॥ एवंपि तत्थ विहरन्ता पुटुपुव्वा अहेसि सुणिएहिं । संलुञ्चमाणा सुणएहिं दुच्चराणि तत्थ लाढेहिं ॥ ६ ॥ निहाय दण्डं पाणेहिं तं कायं वोसज्ज - णगारे । अह गामकण्टए भगवन्ते अहिआसए अभिसमिच्चा ॥ ७ ॥ नागो संगासीसेवा पाए तत्थ से महावीरे । एवंपि तत्थ लाढेहिं अलद्धपुव्वोवि एगया गामो ॥ ८ ॥
'इदृक्षः' पूर्वोक्तस्वभावो यत्र जनस्तं तथाभूतं जनपदं भगवान् 'भूयः' पौनःपुन्येन विहृतवान् तस्यां च वज्रभूमौ बहवो जनाः परुषाशिनो रूक्षाशिनो रूक्षाशितया च प्रकृतिक्रोधनास्ततो यतिरूपमुपलभ्य कदर्थयन्ति ततस्तत्रान्ये श्रमणाः शाक्यादयो यष्टिं - देहप्रमाणां चतुरङ्गुलाधिकप्रमाणां वा नालिकां गृहीत्वा श्वादिनिषेधनाय विजहुरिति ॥ किं च - एवमपि यष्ट्यादिकया सामग्र्या श्रमणा विहरन्तः 'स्पृष्टपूर्वा' आरब्धपूर्वाः श्वभिरासन्, तथा 'संलुच्यमाना' इतश्चेतश्च भक्ष्यमाणाः श्वभिरासन्, दुर्निवारत्वात्तेषां, 'तत्र' तेषु लाढेष्वार्यलोकानां दुःखेन चर्यन्त इति दुश्चराणि - प्रामादीनीति ॥ तदेवंभूतेष्वपि लाढेषु कथं भगवान् विहृतवानिति दर्शयितुमाह - प्राणिषु यो दण्डनाद्दण्डो - मनोवाक्कायादिकस्तं भगवान् 'निधाय' त्यक्त्वा, तथा तच्छरीरमप्यनगारो व्युत्सृज्याथ 'ग्रामकण्टकान्' नीचजनरूक्षालापानपि भगवांस्तांस्तान् सम्यक्करणतया निर्जरामभिसमेत्य - ज्ञात्वाऽध्यासयति - अधिसहते ॥ कथमधिसहत इति दृष्टान्तद्वारेण दर्शयितुमाह - 'नागो' हस्ती य

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668