Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
| उपधा०९
श्रीआचारावृत्तिः (शी०)
उद्देशकः२
SHSHSHSHSHS
शीतजनितं दुःखस्पर्शमनुभवन्ति, आर्तध्यानवशगा भवन्तीत्यर्थः, तस्मिंश्च शिशिरे हिमकणिनि मारुते च प्रवाति सत्येके न सर्वे 'अनगाराः' तीर्थिकप्रव्रजिता हिमवाते सति शीतपीडितास्तदपनोदाय पावकं प्रज्वालयन्ति-अङ्गारशकटिकामन्वेषयन्ति, प्रावारादिकं याचन्ते, यदिवाऽनगारा इति-प्रार्श्वनाथतीर्थप्रव्रजिता गच्छवासिन एव शीतार्दिता निवातमेषन्ति-घवशालादिकावसतीर्वातायनादिरहिताः प्रार्थयन्ति ॥ किं च-इह सङ्घाटीशब्देन शीतापनोदक्षम कल्पद्वयं त्रयं वा गृह्यते, ताः सङ्घाटीः शीतार्दिता वयं प्रवेक्ष्यामः, एवं शीतार्दिता अनगारा अपि विदधति, तीर्थिकप्रव्रजितास्त्वेधाः-समिधः काष्ठानीतियावद् एताश्च समादहन्तः शीतस्पर्श सोढुं शक्ष्यामः, तथा संघाच्या वा पिहिताः-स्थ|गिताः कम्बलाद्यावृतशरीरा इति, किमर्थमेतत्कुर्वन्तीति दर्शयति-यतोऽतिदुःखमेतद्-अतिदुःसहमेतद्यदुत हिमसंस्पर्शाःशीतस्पर्शवेदना दुःखेन सह्यन्त इतियावत् ॥ तदेवमेवभूते शिशिरे यथोक्तानुष्ठानवत्सु च स्वयूथ्येतरेष्वनगारेषु यद्भगवान् व्यधात्तदर्शयितुमाह-'तस्मिन्' एवंभूते शिशिरे हिमवाते शीतस्पर्शे च सर्वकषे 'भगवान्' ऐश्वर्यादिगुणोपेतस्तं शीतस्पर्शमध्यासयति-अधिसहते, किंभूतोऽसौ ?–'अप्रतिज्ञो' न विद्यते निवातवसतिप्रार्थनादिका प्रतिज्ञा यस्य स तथा, वाध्यासयति ?–'अधो विकटे' अधः-कुड्यादिरहिते छन्नेऽप्युपरि तदभावेऽपि चेति, पुनरपि विशिनष्टि-रागद्वेषविरहाव्यभूतः कर्मग्रन्थिद्रावणाद्वा द्रवः-संयमः स विद्यते यस्यासौ द्रविकः, स च तथाऽध्यासयन् यद्यत्यन्तं शीतेन बाध्यते ततस्तस्मात् छन्नान्निष्क्रम्य बहिरेकदा-रात्रौ मुहूर्त्तमात्रं स्थित्वा पुनः प्रविश्य स भगवान् शमितया सम्यग्वा सम- तया वा व्यवस्थितः सन् तं शीतस्पर्श रासभदृष्टान्तेन सोढुं शक्नोति-अधिसहत इति ॥ एतदेवोदेशकार्थमुपसंजिहीर्घ
॥३०९॥

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668