Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
धानं 'प्रेक्षमाणः' पर्यालोचयन् न पुनर्भगवतः कथंचिद्दौर्मनस्यं समुत्पद्यते, तथाऽप्रतिज्ञः-अनिदान इति ॥ किं च-ज्ञात्वा हेयोपादेयं स महावीरः कर्मप्रेरणसहिष्णुर्नापि च पापकं कर्म स्वयमकाषीत् न चाप्यन्यैरचीकरत् न च क्रियमाणमपरैरनुज्ञातवानिति ॥ किं च
गाम पविसे नगरं वा घासमेसे कडं परट्टाए । सुविसुद्धमेसिया भगवं आयतजोगयाए सेवित्था ॥ ९॥ अदु वायसा दिगिंछत्ता जे अन्ने रसेसिणो सत्ता । घासेसणाए चिटन्ति सययं निवइए य पेहाए ॥१०॥ अदुवा माहणं च समणं वा गामपिण्डोलगं च अतिहिं वा । सोवागमूसियारिं वा कुकुरं वावि विट्टियं पुरओ ॥ ११ ॥ वित्तिच्छेयं वजन्तो तेसिमप्पत्तियं परिहरन्तो । मन्दं परक्कमे भगवं अहिंसमाणो
घासमेसिस्था ॥ १२॥ ___ ग्राम नगरं वा प्रविश्य भगवान् ग्रासमन्वेषयेत् , परार्थाय कृतमित्युद्गमदोषरहितं, तथा सुविशुद्धमुत्पादनादोषरहितं, तथैषणादोषपरिहारेणैषित्वा-अन्वेष्य भगवानायतः-संयतो योगो-मनोवाकायलक्षणः आयतश्चासौ योगश्चायतयोगो -ज्ञानचतुष्टयेन सम्यग्योगप्रणिधानमायतयोगस्य भाव आयतयोगता तया सम्यगाहारं शुद्धं ग्रासैषणादोषपरिहारेण से
AARRRRRRRIAAAAAAKA

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668