Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 659
________________ दर्शयति-सच भगवान् स्पृष्टो वा श्वभक्षणादिभिरस्पृष्टो वा कासश्वासादिभिर्नासौ चिकित्सामभिलपति, न द्रव्योषधायुपयोगतः पीडोपशमं प्रार्थयतीति ॥ एतदेव दर्शयितुमाह-गात्रस्य सम्यक् शोधन संशोधनं-विरेचनं निःसोत्रादिभिः तथा वमनं मदनफलादिभिः, चशब्द उत्तरपदसमुच्चयार्थी, गात्राभ्यङ्गनं च सहस्रपाकतैलादिभिः स्नानं चोद्वर्तनादिभिः संबाधनं च हस्तपादादिभिस्तस्य-भगवतो न कल्पते, तथा सर्वमेव शरीरमशुच्यात्मकमित्येवं 'परिज्ञाय' ज्ञात्वा दन्तकाष्ठादिभिदन्तप्रक्षालनं च न कल्पत इति ॥ किं च-'विरतो' निवृत्तः केभ्यो?-'ग्रामधर्मेभ्यो' यथास्वमिन्द्रियाणां शब्दादिभ्यो विपयेभ्यो 'रीयते' संयमानुष्ठाने पराक्रमते, 'माहणे'त्ति, किंभूतो भगवान् ? असावबहुवादी, सकृद्ध्याकरणभावाद्बहुशब्दोपादानम् , अन्यथा हि अवादीत्येव ब्रूयात् , तथैकदा शिशिरसमये स भगवांश्छायायां धर्मशुक्लध्यानध्याय्यासीच्चेति ॥ किं च-सुव्यत्ययेन सप्तम्यर्थे पष्ठी, ग्रीप्मेवातापयति, कथमिति दर्शयति-तिष्ठत्युत्कुटुकासनोऽभिताप-तापाभिमुखमिति, 'अथ' आनन्तर्ये धर्माधारं देहं यापयति स्म रूक्षेण-स्नेहरहितेन केन?-'ओदनमन्थुकुल्माषेण' ओदनं च-कोद्रवौदनादि मन्थु च-बदरचूर्णादिकं कुल्मापाश्च-मापविशेषा एवोत्तरापथे धान्यविशेषभूताः पर्युषितमाषा वा सिद्धमाषा वा ओदनमन्थुकुल्मापमिति समाहारद्वन्द्वः तेनात्मानं यापयतीति सम्बन्ध इति ॥ एतदेव कालावधिविशेषणतो दर्शयितुमाह एयाणि तिन्नि पडिसेवे अट्ठ मासे अ जावयं भगवं । अपि इत्थ एगया भगवं अद्धमासं अदुवा मासंपि ॥ ५॥ अवि साहिए दुवे मासे छप्पि मासे अदुवा विह

Loading...

Page Navigation
1 ... 657 658 659 660 661 662 663 664 665 666 667 668