Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 660
________________ उपधा०९ श्रीआचाराजवृत्तिः (शी०) उद्देशकः४ ॥३१३॥ रित्था । राओवरायं अपडिन्ने अन्नगिलायमेगया भुजे ॥६॥ छट्टेण एगया भुञ्जे अदुवा अट्रमेण दसमेणं । दुवालसमेण एगया भुञ्ज पेहमाणे समाहिं अपडिन्ने ॥७॥ णच्चा णं से महावीरे नोऽविय पावगं सयमकासी । अन्नहिं वा ण कारित्था कीरंतंपि नाणुजाणित्था ॥८॥ 'एतानि' ओदनादीन्यनन्तरोक्तानि प्रतिसेवते, तानि च समाहारद्वन्द्वेन तिरोहितावयवसमुदायप्रधानेन निर्देशाकस्यचिन्मन्दबुद्धेः स्यादारेका यथा-त्रीण्यपि समुदितानि प्रतिसेवत इति, अतस्तद्व्यदासाय त्रीणीत्यनया सख्यया निर्देश इति, त्रीणि समस्तानि व्यस्तानि वा यथालाभं प्रतिसेवत इति, कियन्तं कालमिति दर्शयति-अष्टौ मासान् ऋतुबद्धसंज्ञकानात्मानं अयापयद्-वर्तितवान् भगवानिति, तथा पानमप्यर्द्धमासमथवा मासं भगवान् पीतवान् ॥ अपि चमासद्वयमपि साधिकम् अथवा पडपि मासान् साधिकान् भगवान्पानकमपीत्वाऽपि 'रात्रोपरात्र'मित्यहर्निशं विहृतवान्, किंभूतः?-'अप्रतिज्ञः' पानाभ्युपगमरहित इत्यर्थः, तथा 'अन्नगिलाय'न्ति पर्युषितं तदेकदा भुक्तवानिति ॥ | किं च-पष्ठेनैकदा भुङ्क्ते, षष्ठं हि नामैकस्मिन्नहन्येकभक्तं विधाय पुनर्दिनद्वयमभुक्त्वा चतुर्थेऽह कभक्कमेव विधत्ते, ततश्चाद्यन्तयोरेकभक्तदिनयोक्तद्वयं मध्यदिवसयोश्च भक्तचतुष्टयमित्येवं षण्णां भक्तानां परित्यागात्षष्ठं भवति, एवं |दिनादिवृद्ध्याऽष्टमाद्यायोज्यमिति, अथाष्टमेन दशमेनाथवा द्वादशमेनैकदा कदाचिद्भुक्तवान्, 'समाधि' शरीरसमा ॥ १३॥

Loading...

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668