Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
II. समियासी ॥ १६ ॥ एस विही अणु० रीयइ ॥ १७ ॥ तिबेमि ९-४ ब्रह्मचर्यश्रुतस्कन्धे
नवमाध्ययने चतुर्थ उद्देशकः ॥ ९ ॥ 'सूइयं त्ति दध्यादिना भक्तमाीकृतमपि तथाभूतं शुष्क वा-वल्लचनकादि शीतपिण्डं वा-पर्युषितभक्तम् तथा 'पुराणकुल्मापं वा' वहुदिवससिद्धस्थितकुल्माष, 'बुक्कसं ति चिरन्तनधान्यौदनं, यदिवा पुरातनसक्तुपिण्डं, यदिवा बहुदिवससम्भृतगोरसं गोधूममण्डकं चेति, तथा 'पुलाक' यवनिष्पावादि, तदेवम्भूतं पिण्डमवाप्य रागद्वेषविरहाद् द्रविको भगवान् तथाऽन्यस्मिन्नपि पिण्डे लब्धेऽलब्धे वा द्रविक एव भगवानिति, तथाहि-लब्धे पर्याप्ते शोभने वा नोत्कर्ष याति, नाप्यलब्धेऽपर्याप्तेऽशोभने वाऽऽत्मानमाहारदातारं वा जुगुप्सते ॥ किं च-तस्मिंस्तथाभूत आहारे लब्ध उपभुक्तेऽलब्धे चापि ध्यायति स महावीरो, दुष्प्रणिधानादिना नापध्यानं विधत्ते, किमवस्थो ध्यायतीति दर्शयति-आसनस्थ:उत्कुटुकगोदोहिकावीरासनाद्यवस्थोऽकौत्कुचः सन्-मुखविकारादिरहितो ध्यान-धर्मशुक्लयोरन्यतरदारोहति, किं पुनस्तत्र ध्येयं ध्यायतीति दर्शयितुमाह-ऊर्ध्वमधस्तिर्यग्लोकस्य ये जीवपरमाण्वादिका भावा व्यवस्थितास्तान् द्रव्यपर्यायनित्यानित्यादिरूपतया ध्यायति, तथा समाधिम्-अन्तःकरणशुद्धिं च प्रेक्षमाणोऽप्रतिज्ञो ध्यायतीति ॥ किं च-न कषाय्यकपायी तदुदयापादितधकुट्यादिकार्याभावात् , तथा विगता गृद्धिः-गार्थ्य यस्यासौ विगतः , तथा शब्दरूपादिष्विन्द्रियार्थेष्वमूच्छितो ध्यायति, मनोऽनुकूलेषु न रागमुपयाति नापीतरेषु द्वेषवशगोऽभूदिति, तथा छद्मनि-ज्ञानदर्शना

Page Navigation
1 ... 661 662 663 664 665 666 667 668