Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
%AAAAAAAACK
शिष्यः पृच्छति-किमिदानी तत्त्वमस्तु?, आचार्य आह-नन्वभिहितमेव विस्मरणशीलो देवानांप्रियो यथा ज्ञानक्रियानयौ परस्परसव्यपेक्षौ सकलकर्मकन्दोच्छेदात्मकस्य मोक्षस्य कारणभूताविति, प्रदीप्तसमस्तनगरान्तर्वर्तिपरस्परोपकार्योपकारकभावावाप्तानाबाधस्थानौ पवन्धाविवेति, तथा चोक्तम्-"संजोयसिद्धी' फलं वदन्ती'त्यादि, स्वतन्त्रप्रवृत्तौ तु न विवक्षितकार्य साधयत इत्येतच्च प्रसिद्धमेव, यथा 'हयं णाण'मित्यादि, आगमेऽपि सर्वनयोपसंहारद्वारेणायमेवार्थोंsभिहितो, यथा-'सब्वेसिपि णयाणं बहुविवत्तवयं णिसामेत्ता। तं सव्वणयविसुद्धं जं चरणगुणडिओ साहू ॥१॥ त्ति', तदेतदाचाराङ्गं ज्ञानक्रियात्मकं अधिगतसम्यक्पथानां कुश्रुतसरित्कषायझषकुलाकुलं प्रियविप्रयोगाप्रियसंप्रयोगाद्यनेकव्यसनोपनिपातमहावर्त्त मिथ्यात्वपवनेरणोपस्थापितभयशोकहास्यरत्यरत्यादितरङ्ग विश्रसावेलाचितं व्याधिशतनकचक्रालयं महागम्भीरं भयजननं पश्यतां त्रासोत्पादक महासंसारार्णवं साधूनामुत्तितीर्पतां तदुत्तरणसमर्थमव्याहतं यानपात्रमिति, अतो मुमुक्षुणाऽऽत्यन्तिकैकान्तिकानावाधं शाश्वतमनन्तमजरममरमक्षयमव्यावाधमुपरतसमस्तद्वन्द्वं सम्यग्दर्शनज्ञानव्रतचरणक्रियाकलापोपेतेन परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुना समालम्बनीयमिति तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कन्धस्य निर्वृतिकुलीनश्रीशीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाधुसहायेन कृता टीका परिसमाप्तेति ॥ श्लोकतो ग्रन्थमानम् ॥ ९७६ ॥
१संयोगसिद्धेः फलं वदन्ति (नैवैकचक्रेण रथः प्रयाति । अन्धश्च पहुच वने समेत्य तौ संप्रयुक्तो नगर प्रविष्टौ ॥१॥) २ हतं ज्ञान किया हीनं. ३ सर्वे|षामपि नयाना बहुविधवक्तव्यतां निशम्य । तत्सर्वनय विशुद्धं यच्चरणगुणस्थितः साधुः ॥१॥

Page Navigation
1 ... 665 666 667 668