Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 648
________________ श्री आचा राङ्गवृत्तिः (शी०) ॥ ३०७ ॥ सकुड्याकुज्यकृतो, वृक्षमूले वा एकदा वास इति ॥ किं च- 'एतेषु' पूर्वोक्तेषु 'शयनेषु' वसतिषु स 'मुनिः' जगत्रयवेत्ता ऋतुबद्धेषु वर्षासु वा 'श्रमणः' तपस्युद्युक्तः समना वाऽऽसीत् निश्चलमना इत्यर्थः कियन्तं कालं यावदिति दर्शयति'पतेलसवासे'त्ति प्रकर्षेण त्रयोदशं वर्ष यावत्समस्तां रात्रिं दिनमपि यतमानः संयमानुष्ठान उद्युक्तवान् तथाऽप्रमत्तो-निद्रादिप्रमादरहितः 'समाहितमनाः' विस्रोतसिकारहितो धर्म्मध्यानं शुक्लध्यानं वा ध्यायतीति ॥ किं च णिद्दपि नोपगामाए, सेवइ भगवं उट्ठाए । जग्गावइ य अप्पाणं इसिं साई य अपडिने ॥ ५ ॥ संबुज्झमाणे पुणरवि आसिंसु भगवं उट्टाए । निक्खम्म एगया राओ बहि चकमिया मुहुत्तागं ॥ ६ ॥ सयणेहिं तत्थुवसग्गा भीमा आसी अणेगरूवा य । संसप्पा य जे पाणा अदुवा ज़े पक्खिणो उवचरन्ति ॥ ७ ॥ अदु कुचरा उवचरन्ति गामरक्खा य सत्तिहत्था य । अदु गामिया उवसग्गा इत्थी एगइया पुरिसा य ॥ ८ ॥ निद्रा मप्यसावपरप्रमादरहितो न प्रकामतः सेवते, तथा च किल भगवतो द्वादशसु संवत्सरेषु मध्येऽस्थिकप्रामे व्यन्तरोपसर्गान्ते कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्त्त यावत्स्वप्रदर्शनाध्यासिनः सकृन्निद्राप्रमाद आसीत्, ततोऽपि चोत्थायात्मानं 'जागरयति' कुशलानुष्ठाने प्रवर्त्तयति, यत्रापीषच्छय्याऽऽसीत् तत्राप्यप्रतिज्ञः - प्रतिज्ञारहितो, न त - उपधा० ९ उद्देशकः२ ॥ ३०७ ॥

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668