Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ ३०६ ॥
अल्पशब्दोऽभावे वर्त्तते, अल्पं तिर्यक् तिरश्चीनं गच्छन् प्रेक्षते, तथाऽल्पं पृष्ठतः स्थित्वोत्प्रेक्षते, तथा मार्गादि केनचित्पृष्टः सन्नप्रतिभाषी सन्नल्पं ब्रूते, मौनेन गच्छत्येव केवलमिति दर्शयति- पथिप्रेक्षी 'चरद्' गच्छेद्यतमानः प्राणिविषये | यलवानिति ॥ किं च-अध्वप्रतिपन्ने शिशिरे सति तद्देवदृष्यं वस्त्रं व्युत्सृज्यानगारो भगवान् प्रसार्य बाहू पराक्रमते, न तु पुनः शीतार्दितः सन् सङ्कोचयति, नापि स्कन्धेऽवलम्ब्य तिष्ठतीति ॥ साम्प्रतमुपसजिहीर्षुराह - एष चर्याविधि - रनन्तरोक्तोऽनुक्रान्तः - अनुचीर्णः 'माहणेण 'ति श्रीवर्द्धमानस्वामिना ' मतिमता' विदितवेद्येन 'बहुशः' अनेकप्रकारम प्रतिज्ञेन-अनिदानेन 'भगवता' ऐश्वर्यादिगुणोपेतेन, 'एवम्' अनेन पथा भगवदनुचीर्णनान्ये मुमुक्षवोऽशेषकर्मक्षयाय साधवो 'रीयन्ते' गच्छन्तीति । इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववद्, उपधानश्रुताध्ययनस्य प्रथमोद्देशक इति ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेश के भगवतश्चर्याऽभिहिता, तत्र चावश्यं कयाचिच्छय्यया वसत्या भाव्यमतस्तत्प्रतिपादनायायमुद्देशकः प्रक्रम्यते इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादि सूत्रम् —
चरियासणाई सिजाओ एगइयाओ जाओ बुइयाओ । आइक्ख ताई सयणासणाई जाई सेवित्था से महावीरे ॥ १ ॥ आवेसणसभापवासु पणियसालासु एगया वासो । अदुवा पलियठाणेसु पलालपुञ्जेसु एगया वासो ॥ २ ॥ आगन्तारे आरा
उपधा० ९
उद्देशकः १
॥ ३०६ ॥

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668