Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 645
________________ वते च-नोपभुते च परवस्त्रं-प्रधानं वस्त्रं परस्य वा वस्त्रं परवस्त्रं नासेवते, तथा परपात्रेऽप्यसौ न भुङ्क्ते, तथा परिव ापमानम्-अवगणय्य गच्छति असावाहाराय सङ्खण्ड्यन्ते प्राणिनोऽस्यामिति सङ्कण्डिस्तामाहारपाकस्थानभूतामशरणाय शरणमनालम्बमानोऽदीनमनस्कः कस इतिकृत्वा परीपहविजयार्थं गच्छतीति ॥ किं च-आहारस्य मात्रां जानातीति मात्राज्ञः, कस्य ?-अश्यत इत्यशनं-शाल्योदनादि पीयत इति पानं-द्राक्षापानकादिः तस्य च, तथा नानुगृद्धो 'रसेषु' विकृतिषु, भगवतो हि गृहस्थभावेऽपि रसेषु गृद्धिर्नासीत्, किं पुनः प्रवजितस्येति?, तथा रसेष्वेव ग्रहणं प्रत्यप्रतिज्ञो, यथा-मयाऽद्य सिंहकेसरा मोदका एव ग्राह्या इत्येवंरूपप्रतिज्ञारहितोऽन्यत्र तु कुल्माषादौ सप्रतिज्ञ एव, तथाऽक्ष्यपि रजःकणुकाद्यपनयनाय नो प्रमार्जयेन्नापि च गात्रं मुनिरसौ कण्डूयते-काष्ठादिना गात्रस्य कण्डूव्यपनोदं न विधत्त इति । किं च अप्पं तिरियं पेहाए अप्पि पिटुओ पेहाए । अप्पं बुइएऽपडिभाणी पंथपेहि चरे जयमाणे ॥ २१ ॥ सिसिरंसि अद्धपडिवन्ने तं वोसिज वत्थमणगारे । पसारित्तु बाहुं परक्कमे नो अवलम्बियाण कंधमि ॥ २२ ॥ एस विही अणुक्कन्तो माहणेण मईमया । बहुसोअपडिन्नेण भगवया एवं रियति ॥२३॥त्तिबेमि ॥उपधानश्रुताध्ययनोदेशः१॥९-१॥

Loading...

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668