Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
त्रापि स्वापाभ्युपगमपूर्वकं शयित इत्यर्थः ॥ किं च-स मुनिनिंद्राप्रमादाद् व्युत्थितचित्तः 'संबुध्यमानः' संसारपातायायं प्रमाद इत्येवमवगच्छन् पुनरणमत्तो भगवान् संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चिन्निद्राप्रमादः स्यात् ततस्तस्मान्निष्क्रम्यैकदा शीतकालरात्रादौ बहिश्चङ्गम्य मुहूर्त्तमात्रं निद्राप्रमादापनयनार्थ ध्याने स्थितवानिति ॥ किं च-शय्यते-स्थीयते उत्कुटुकासनादिभिर्येष्विति शयनानि-आश्रयस्थानानि तेषु तैर्वा तस्य भगवत उपसर्गा 'भीमा' भयानका आसन् अनेकरूपाश्च शीतोष्णादिरूपतयाऽनुकूलप्रतिकूलरूपतया वा, तथा संसर्पन्तीति संसर्पका:-शून्यगृहादावहिनकुलादयो ये प्राणिनः 'उपचरन्ति'उप-सामीप्येन मांसादिकमश्नन्ति अथवा श्मशानादौ पक्षिणो गृध्रादय उपचरन्तीति वर्त्तते ॥ किं च–'अथ' अनन्तरं कुत्सितं चरन्तीति कुचराः-चौरपारदारिकादयस्ते च कचिच्छून्यगृहादौ 'उपचरन्ति' उपसर्गयन्ति, तथा ग्रामरक्षादयश्च त्रिकचत्वरादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचरन्तीति, अथ 'ग्रामिका' ग्रामधर्माश्रिता उपसर्गा एकाकिनः स्युः, तथाहि-काचित्स्त्री रूपदर्शनाध्युपपन्ना उपसर्गयेत् पुरुषो वेति ॥ किं च
इहलोइयाइं परलोइयाइं भीमाइं अणेगरूवाई । अवि सुब्भि दुब्भिगन्धाइं सदाई अणेगरूवाइं ॥ ९॥ अहियासए सया समिए फासाइं विरूवरूवाइं । अरइं रइं अभिभूय रीयइ माहणे अबहुवाई ॥ १०॥ स जणेहिं तत्थ पुच्छिसु एगचरावि एगया राओ । अव्वाहिए कसाइत्था पेहमाणे समाहिं अपडिन्ने ॥ ११॥ अयमंतरंसि

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668