Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
मागारे तह य नगरे व एगया वासो। सुसाणे सुण्णगारे वा रुक्खमूले व एगया वासो ॥३॥ एएहिं मुणी सयणेहिं समणे आसि पतेरसवासे । राइं दिवंपि जयमाणे अ
पमत्ते समाहिए झाइ ॥४॥ चर्यायामवश्यंभावितया यानि शय्यासनान्यभिहितानि सामर्थ्यायातानि तानि शयनासनानि-शय्याफल कादीन्याचक्ष्व सुधर्मस्वामी जम्बूनाम्नाऽभिहितो यानि सेवितवान् महावीरो-वर्द्धमानस्वामीति, अयं च श्लोकश्चिरन्तनटीकाकारेण न व्याख्यातः, तत्र किं सुगमत्वादुताभावात् , सूत्रपुस्तकेषु तु दृश्यते, तदभिप्रायं च वयं न विद्म इति ॥ प्रश्नप्रतिवचनमाह-भगवतो ह्याहाराभिग्रहवत् प्रतिमाव्यतिरेकेण प्रायशो न शय्याऽभिग्रह आसीत्, नवरं यत्रैव चरमपौरुषी भवति तत्रैवानुज्ञाप्य स्थितवान् , तद्दर्शयति-आ-समन्ताद्विशन्ति यत्र तदावेशनं-शून्यगृहं सभा नाम ग्रामनगरादीनां है तद्वासिलोकास्थायिकार्थमागन्तुकशयनार्थ च कुड्याद्याकृतिः क्रियते, 'प्रपा' उदकदानस्थानम् आवेशनं च सभा च प्रपा च आवेशनसभाप्रपास्तासु, तथा 'पण्यशालासु' आपणेषु 'एकदा' कदाचिद्वासो भगवतोऽथवा 'पलिय'न्ति कर्म तस्य | स्थानं कर्मस्थानं-अयस्कारवर्द्धकिकुड्यादिकं, तथा पलालपुञ्जेषु मञ्चोपरि व्यवस्थितेष्वधो, न पुनस्तेष्वेव, झुषिरत्वा
दिति ॥ किं च-प्रसङ्गायाता आगत्य वा यत्र तिष्ठन्ति तदागन्तारं तत्पुनामान्नगराद्वा बहिः स्थानं तत्र, तथा आराना. स. ५२४ मेऽगारं-गृहमारामागारं तत्र वा तथा नगरे वा एकदा वासः, तथा श्मशाने शून्यागारे वा, आवेशनशून्यागारयोर्भेदः

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668