Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 643
________________ असी वीरवर्द्धमानत विद्यते । विजिम्मणमरणाबाहा भव्य सत्त्वाः सर्वगतिभाजः, ते च 'बाला'रागद्वेषाकलिताः स्वकृतेन कर्मणा पृथक्तया सर्वयोनिभाक्त्वेन च 'कल्पिताः' व्यवस्थिता इति, तथा चोक्तम्-"णत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि । जम्मणमरणाबाहा अणेगसो जत्थ णवि पत्ता॥१॥" अपि च-"रङ्गभूमिने सा काचिच्छुद्धा जगति विद्यते । विचित्रैः कर्मनेपथ्यैर्यत्र सत्त्वैन नाटितम् ॥२॥” इत्यादि । किं च-भगवांश्च-असो वीरवद्धमानस्वाम्येवममन्यत-ज्ञातवान् सह उपधिना वर्तत इति सोपधिका-द्रव्यभावोपधियुक्तः, दुरवधारणे, लुप्यत एव-कर्मणा क्लेशमनुभवत्येव 'अज्ञो' बाल इति, यदिवा हुर्हेतौ य-12 स्मात्सोपधिकः कर्मणा लुप्यते बालस्तस्मात्कम्मे च सर्वशो ज्ञात्वा तत्कर्म प्रत्याख्यातवांस्तदुपादानं च पापकमनुष्ठान भगवान् वर्द्धमानस्वामीति ॥ किं च-द्वे विधे-प्रकारावस्येति द्विविधं, किं तत्?-कर्म, तच्चेर्याप्रत्ययं साम्परायिकं च, तविविधमपि 'समेत्य' ज्ञात्वा 'मेधावी' सर्वभावज्ञः, 'क्रियां' संयमानुष्ठानरूपां कर्मोच्छेत्रीमनीदृशीम्-अनन्यसदृशीमाख्यातवान्, किंभूतो?-ज्ञानी, केवलज्ञानवानित्यर्थः, किं चापरमाख्यातवानिति दर्शयति-आदीयते कर्मानेनेति आदानं-दुष्प्रणिहितमिन्द्रियमादानं च तत् स्रोतश्चादानस्रोतस्तत् ज्ञात्वा तथाऽतिपातस्रोतश्च उपलक्षणार्थत्वादस्य मृषावादादिकमपि ज्ञात्वा तथा 'योगं च' मनोवाक्कायलक्षणं दुष्प्रणिहितं 'सर्वशः' सर्वैः प्रकारैः कर्मबन्धायेति ज्ञात्वा क्रियां संयमलक्षणामाख्यातवानिति सम्बन्धः ॥ किं च अइबत्तियं अणाउहि सयमन्नेसिं अकरणयाए। जस्सिथिओ परिन्नाया सव्वकम्मावहा१ नास्ति किल स प्रदेशो लोके वालाप्रकोटीमात्रोऽपि । जन्ममरणाबाधा भनेकशो यत्र नैव प्राप्ताः ॥१॥

Loading...

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668