Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 642
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३०४ ॥ कठिना तु पृथ्वीशर्करावालुकादि पत्रिंशद्भेदा शस्त्रपरिज्ञानुसारेण द्रष्टव्या, अप्कायोऽपि सूक्ष्मबादरभेदाद्विधा, तत्र सूक्ष्मः पूर्ववद्वादरस्तु शुद्धोदकादिभेदेन पञ्चधा, तेजःकायोऽपि पूर्ववत् नवरं बादरोऽङ्गारादि पञ्चधा, वायुरपि तथैत्र, | नवरं बादर उत्कलिकादिभेदेन पञ्चधा, वनस्पतिरपि सूक्ष्मबादरभेदेन द्विधा, तत्र सूक्ष्मः सर्वगो बादरोऽप्यग्रमूलस्कन्ध| पर्वबीज सम्मूर्छन भेदात्सामान्यतः षोढा, पुनर्द्विधा - प्रत्येकः साधारणश्च तत्र प्रत्येको वृक्षगुच्छादिभेदाद्वादशधा, साधारणस्त्वनेकविध इति, स एवं भेदभिन्नोऽपि वनस्पतिः सूक्ष्मस्य सर्वगतत्वादतीन्द्रियत्वाच्च तद्व्युदासेन बादरो भेदत्वेन संगृहीतः, तद्यथा-पनकग्रहणेन बीजाङ्कुरभावरहितस्य पनकादेरुल्यादिविशेषापन्नस्य ग्रहणं, बीजग्रहणेन त्वग्रबीजादेरुपादानं, हरितशब्देन शेषस्येत्येतानि पृथिव्यादीनि भूतानि 'सन्ति' विद्यन्त इत्येवं प्रत्युपेक्ष्य तथा 'चित्तवन्ति' सचेतना - न्यभिधाय - ज्ञात्वा 'इति' एतत्सङ्ख्याय - अवगम्य स भगवान्महावीरस्तदारम्भं परिवर्ज्य विहृतवानिति ॥ पृथिवीकायादीनां जन्तूनां त्रसस्थावरत्वेन भेदमुपदर्श्य साम्प्रतमेषां परस्परतोऽनुगमनमप्यस्तीत्येतद्दर्शयितुमाह - 'अथ' आनन्तर्ये 'स्थावराः पृथिव्यप्तेजोवायुवनस्पतयः ते 'त्रसतया' द्वीन्द्रियादितया 'विपरिणमन्ते' कर्म्मवशाद् गच्छन्ति, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा 'त्रसजीवाश्च' कृम्यादयः 'स्थावरतया' पृथिव्यादित्वेन कर्म्मनिघ्नाः समुत्पद्यन्ते, तथा चान्यत्राप्युक्तम्- " "अयण्णं भन्ते ! जीवे पुढविकाइयत्ताए जाव तसकाइयत्ताए उववण्णपुब्वे ?, हन्ता गोअमा ! असई अदुवाणंतखुत्तो जाव उववण्णपुब्वे"त्ति, अथवा सर्वा योनयः - उत्पत्तिस्थानानि येषां सत्त्वानां ते सर्वयोनिकाः १ अयं भदन्त ! जीवः पृथ्वीकायिकतया यावत् त्रसकायिकतयोत्पन्नपूर्वः ?, हन्त गौतम । असकृत् अनन्तकृत्वो यावदुत्पन्नपूर्वः उपधा० ९ उद्देशकः १ ॥ ३०४ ॥

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668