Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 627
________________ CRISISAAROSATHIASAN . सम्वमिं तवोकम्मं निरुवसग्गं तु वण्णिय जिणाणं । नवरं तु वद्धमाणस्स सोवसग्गं मुणेयव्वं ॥ २७७॥ तित्थायरो चउनाणी मुरमहिओ सिजिझयन्वय धुवम्मि । अणिगृहियबलविरिओ तवोविहाणंमि उज्जमह॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमियव्वं सपचवायंमि माणुस्से ? ॥२७९॥ गाथात्रयमप्युत्तानार्थम् ॥ अध्ययनार्थाधिकारं प्रतिपाद्योद्देशार्थाधिकारं प्रतिपादयन्नाहचरिया रसिज्जा य२ परीसहाय ३ आयकिया(ए)चिगिच्छा ४ यातवचरणेणऽहिगारो चउसुदेसेसुनायव्वो।।२८०॥ । चरणं चर्यत इति वा चर्या-श्रीवीरवर्द्धमानस्वामिनो विहारः, अयं प्रथमोद्देशकेऽर्थाधिकारः १, द्वितीयोदेशके त्वयम र्थाधिकारः, तद्यथा-शय्या-वसतिः सा च यादृग्भगवत आसीत् तादृग्वक्ष्यते २, तृतीये त्वयमर्थाधिकारः-मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीपहाः, उपलक्षणार्थत्वादुपसगोश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन् तेऽत्र प्रतिपाद्यन्ते ३, चतुर्थे त्वयमर्थाधिकारः, तद्यथा-आतङ्किते' क्षुत्पीडायामातकोत्पत्तौ विशिष्टाभिग्रहावाप्पाहारेण चिकित्सेदिति ४, तपश्चरणाधिकारस्तु चतुर्वप्युद्देशकेष्वनुयायीति गाथार्थः॥ निक्षेपस्त्रिधा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाक्रम निक्षेपः कर्तव्य इति न्यायादुपधाननिक्षेपचिकीर्षयाऽऽह नामंठवणुवहाणं दब्वे भावे य होइ नायव्वं । एमेव य सुत्तस्सवि निक्खवो चउब्विहो होइ ॥ २८१ ॥ नामोपधानं स्थापनोपधानं द्रव्योपधानं भावोपधानं च, श्रुतस्याप्येवमेव चतुर्दा निक्षेपः, तत्र द्रव्यश्रुतमनुपयुक्तस्य

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668