Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 632
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २९९ ॥ प्रकृतीनां बन्धव्यवच्छेदं विभत्ते, ताश्चेमाः– देवगतिस्तदानुपूर्वी पञ्चेन्द्रियजातिर्वैक्रियोंहार कैशरीरतदङ्गोपाङ्गानि तैजर्सकार्मणशेरीरे चतुरस्रसंस्थानं वर्णगन्धरसंस्पर्शागुरुलैघूपघात पराघतोच्छ्रासं प्रशस्त विहायो गतित्र संबादरपर्याप्तेकप्रत्येकैस्थिरै शुभ सुभसुस्वरा देय निर्माणतीर्थकरेंनामानि चेति, ततोऽपूर्वकरण चरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः, हास्यादिषट्कस्य तूदयव्यवच्छेदश्च सर्वकर्म्मणामप्रशस्तो ( णां देशी ) पशमनानिधत्तनिका चनाकरणानि च व्यवच्छि द्यन्ते, तदेवमसंयतसम्यग्दृष्ट्यादिष्वपूर्वकरणान्तेषु सप्त कर्माण्युपशान्तानि लभ्यन्ते, तत ऊर्ध्वमनिवृत्तिकरणं, स च नवमो गुणः, तत्र व्यवस्थित एकविंशतीनां मोहप्रकृतीनामन्तरं कृत्वा नपुंसक वेदमुपशमयति, तदनन्तरं स्त्रीवेदं ततो हास्या दिसप्तकं (प), पुनः पुंवेदस्य बन्धोदयव्यवच्छेदः, तत ऊर्ध्व समयोनावलिकाद्वयेन पुंवेदोपशमः, ततः क्रोधद्वयस्य पुनः सवलनक्रोधस्यैवं मानत्रिकस्य मायात्रिकस्य च ततः सज्वलनलोभं सूक्ष्मखण्डानि विधत्ते, तत्करणकालचरमसमये लोभद्वयमुपशमयति, एवं चानिवृत्तिकरणान्ते सप्तविंशतिरुपशान्ता भवति, ततः सूक्ष्मखण्डान्यनुभवन् सूक्ष्मसम्परायो भवति, तदन्ते ज्ञानान्तरायदशकदर्शनावरणचतुष्कयशः कीर्त्यच्चैर्गोत्राणां बन्धव्यवच्छेदः, तदेवमष्टाविंशति| मोहप्रकृत्युपशमे सत्युपशान्तवीतरागो भवति, स च जघन्यत एकं समयमुत्कृष्टतोऽन्तर्मुहूर्त्त तत्प्रतिपातश्च भवक्षयेणाद्धाक्षयेण वा स्यात्, स च यथाऽऽरूढो बन्धादिव्यवच्छेदं च यथा कृतवांस्तथैव प्रतिपतन्विधत्ते, कश्चिच्च मिथ्यात्वमपि गच्छेदिति, यस्तु भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वकरणानि प्रवर्त्तन्ते, एकभव एव कश्चिद् वारद्वयमुपशमं विदध्यादिति । साम्प्रतं क्षपकश्रेणिर्व्यावर्ण्यते-अस्याश्च मनुष्य एवाष्टवर्षोपरि वर्त्तमान आरम्भको भवति, स च उपधा० ९ उद्देशकः १ ॥ २९९ ॥

Loading...

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668