Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 631
________________ प्रथमसमये लोय लिनुकसकथेत-तत्र मिधात्मकुर्वतस्यान्त RSAUGARCANCY प्रतिसमयं सङ्कामयति, तत्रापि प्रथमसमये स्तोकं द्वितीयादिष्वस-ख्येयगुणं एवं यावच्चरमसमये सर्वसङ्कमेणावलिकागतं मुक्त्वा सर्व सङ्कामयति, आवलिकागतमपि स्तिबुकसङ्क्रमेण वेद्यमानास्वपरप्रकृतिषु सङ्कामयति, एवमनन्तानुबन्धिनो विसंयोजिता भवन्ति । इदानीं दर्शनत्रिकोपशमना भण्यते-तत्र मिथात्वस्योपशमको मिथ्यादृष्टिर्वेदकसम्यग्दृष्टि सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु वेदक एवोपशमकः, तत्र मिथ्यात्वस्योपशमं कुर्वस्तस्यान्तरं कृत्वा प्रथमस्थितिं विपाकेनानुभूयोपशान्तमिथ्यात्वः सन्नुपशमसम्यग्दृष्टिभेवतीति । साम्प्रतं वेदकसम्यग्दृष्टिरुपशमणिं प्रतिपद्यमानोऽनन्तानुबन्धिनो विसंयोज्य संयमे वर्तमानो दर्शनत्रिकमुपशमयत्यनेन विधिना, तत्र यथाप्रवृत्तादीनि प्राग्वत्रीणि करणानि कृत्वाऽन्तरकरणं कुर्वन् वेदकसम्यक्त्वस्य प्रथमस्थितिमान्तर्मोहूर्तिकी करोति, इतरां त्वावलिकामात्रां, ततः किञ्चिन्यूनमुहर्त्तमात्रां स्थिति खण्डयित्वा बध्यमानानां प्रकृतीनां स्थितिबन्धमात्रेण कालेन तत्कर्मदलिकं सम्यक्त्वप्रथमस्थितौ प्रक्षिपन्नेत्येवमनया प्रक्रियया सम्यक्त्वबन्धाभावादन्तरं क्रियमाणं कृतं भवति, मिथ्यात्वसम्यग्मिथ्यात्वप्रथमस्थितिदलिकमावलिकामात्रपरिमाणं सम्यक्त्वप्रथमस्थितौ स्तिबुकसङ्क्रमेण सङ्क्रमयति, तस्यामपि सम्यक्त्वप्रथमस्थितौ क्षीणायां सत्यामुपशान्तदर्शनत्रिको भवतीति । तदनन्तरं चारित्रमोहनीयमुपशमयन् पूर्ववत् करणत्रयं करोति, नवरं यथाप्रवृत्तकरणमप्रमत्तगुणस्थान एव भवति, द्वितीयं त्वपूर्वकरणमष्टममेव गुणस्थानकं, तस्य च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्क्रमापूर्वस्थितिबन्धा यौगपद्येन पञ्चाप्यधिकाराः प्रवर्तन्ते, तत्रापूर्वकरणसख्येयभागे गते निद्रामचलयोर्बन्धव्यवच्छेदो भवति, ततोऽपि बहुषु स्थितिकण्डकसहस्रेषु गतेषु सत्सु परभविकनाम्नां चरमसमये त्रिंशतो नाम

Loading...

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668