Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 638
________________ श्रीआचारावृत्तिः (शी०) उपधा०९ हा उद्देशका ॥७॥णो सुकरमेयमेगेसिं नाभिभासे य अभिवायमाणे । हयपुव्वे तत्थ दण्डहिं लूसियपुवे अप्पपुण्णेहिं ॥८॥ 'अर्थ' आनन्तर्ये पुरुषप्रमाणा पौरुषी-आत्मप्रमाणा वीथी तां गच्छन् ध्यायतीर्यासमितो गच्छति, तदेव चात्र ध्यानं यदीर्यासमितस्य गमनमिति भावः, किंभूतां तां-तिर्यग्भित्ति-शकटोर्द्धिवदादौ सङ्कटामग्रतो विस्तीर्णामित्यर्थः, कथं ध्यायति', 'चक्षुरासाद्य' चक्षुर्दत्त्वाऽन्तः-मध्ये दत्तावधानो भूत्वेति, तं च तथा रीयमाणं दृष्ट्वा कदाचिदव्यक्तवयसः कुमारादय उपसर्गयेयुरिति दर्शयति-'अर्थ' आनन्तर्ये चक्षुःशब्दोऽत्र दर्शनपर्यायो, दर्शनादेव भीता दर्शनभीताः |संहिता-मिलितास्ते बहवो डिम्भादयः पांसुमुष्ट्यादिभिर्हत्वा हत्वा चक्रन्दुः, अपरांश्च चुक्रुशुः-पश्यत यूयं नग्नो मुण्डितः, तथा कोऽयं कुतोऽयं किमीयो वा अयमित्येवं हलबोलं चक्रुरिति॥ किं च-शय्यत एष्विति शयनानि-वसतयस्तेषु कुतश्चिन्निमित्ताब्यतिमिश्रेषु गृहस्थतीर्थिकः, तत्र व्यवस्थितः सन् यदि स्त्रीभिः प्रार्थ्यते ततस्ताः शुभमार्गार्गला इति ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया परिहरन् सागारिकं-मैथुनं न सेवेत, शून्येषु च भावमैथुनं न सेवेत,इत्येवं स भगवान् स्वयम्-आत्मना वैराग्यमार्गमात्मानं प्रवेश्य धर्मध्यानं शुक्लध्यानं वा ध्यायति ॥ तथा-ये केचन इमेऽगारं-गृहं तत्र तिष्ठन्तीति अगारस्थाः-गृहस्थास्तैर्मिश्रीभावमुपगतोऽपि द्रव्यतो भावतश्च तं मिश्रीभावं प्रहाय-त्यक्त्वा स भगवान् धर्मध्यानं ध्यायति, तथा कुतश्चिन्निमित्ताद्गृहस्वैः पृष्टोऽपृष्टो वा न वक्ति, स्वकार्याय गच्छत्येव, न तैरुक्तो मोक्षपथमतिवर्तते ध्यानं वा, XAXANTXAU ३०२॥

Loading...

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668