________________
CRISISAAROSATHIASAN
. सम्वमिं तवोकम्मं निरुवसग्गं तु वण्णिय जिणाणं । नवरं तु वद्धमाणस्स सोवसग्गं मुणेयव्वं ॥ २७७॥ तित्थायरो चउनाणी मुरमहिओ सिजिझयन्वय धुवम्मि । अणिगृहियबलविरिओ तवोविहाणंमि उज्जमह॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमियव्वं सपचवायंमि माणुस्से ? ॥२७९॥ गाथात्रयमप्युत्तानार्थम् ॥ अध्ययनार्थाधिकारं प्रतिपाद्योद्देशार्थाधिकारं प्रतिपादयन्नाहचरिया रसिज्जा य२ परीसहाय ३ आयकिया(ए)चिगिच्छा ४ यातवचरणेणऽहिगारो चउसुदेसेसुनायव्वो।।२८०॥ । चरणं चर्यत इति वा चर्या-श्रीवीरवर्द्धमानस्वामिनो विहारः, अयं प्रथमोद्देशकेऽर्थाधिकारः १, द्वितीयोदेशके त्वयम
र्थाधिकारः, तद्यथा-शय्या-वसतिः सा च यादृग्भगवत आसीत् तादृग्वक्ष्यते २, तृतीये त्वयमर्थाधिकारः-मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीपहाः, उपलक्षणार्थत्वादुपसगोश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन् तेऽत्र प्रतिपाद्यन्ते ३, चतुर्थे त्वयमर्थाधिकारः, तद्यथा-आतङ्किते' क्षुत्पीडायामातकोत्पत्तौ विशिष्टाभिग्रहावाप्पाहारेण चिकित्सेदिति ४, तपश्चरणाधिकारस्तु चतुर्वप्युद्देशकेष्वनुयायीति गाथार्थः॥ निक्षेपस्त्रिधा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाक्रम निक्षेपः कर्तव्य इति न्यायादुपधाननिक्षेपचिकीर्षयाऽऽह
नामंठवणुवहाणं दब्वे भावे य होइ नायव्वं । एमेव य सुत्तस्सवि निक्खवो चउब्विहो होइ ॥ २८१ ॥ नामोपधानं स्थापनोपधानं द्रव्योपधानं भावोपधानं च, श्रुतस्याप्येवमेव चतुर्दा निक्षेपः, तत्र द्रव्यश्रुतमनुपयुक्तस्य