SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ अथोपधानश्रुताख्यं नवममध्ययनम् उपधा०९ श्रीआचारामवृत्तिः (शी०) उद्देशकः१ ॥२९६ ॥ उक्तमध्ययनमष्टमं, साम्प्रतं नवममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेष्वष्टसु योऽर्थोऽभिहितः स तीर्थकृता वीरवर्द्धमानस्वामिना स्वत एवाचीर्ण इत्येतन्नवमेऽध्ययने प्रतिपाद्यते, अनन्तराध्ययनसम्बन्धस्त्वयम्-इहाभ्युद्यतमरणं त्रिप्रकारमभिहितं, तत्रान्यतरस्मिन्नपि व्यवस्थितोऽष्टाध्ययनार्थविधायिनमतिघोरपरीषहोपसर्गसहिष्णुमाविष्कृतसन्मार्गावतारं तथा घातितघातिचतुष्टयाविर्भूतानन्तातिशयाप्रमेयमहाविषयस्वपरावभासककेवलज्ञानं भगवन्तं श्रीवर्द्धमानस्वामिनं समवसरणस्थं सत्त्वहिताय धर्मदेशनां कुर्वाणं ध्यायेदित्येतत्प्रतिपादनार्थमिदमध्ययनमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारो लेशतोऽभिहितस्तमेव नियुक्तिकारः स्पष्टतरं बिभणिषुराह जो जइया तित्थयरो सो तइया अप्पणो य तित्थम्मि । वण्णेइ तवोकम्म ओहाणसुयंमि अज्झयणे ॥२७६॥ | यो यदा तीर्थकृदुत्पद्यते स तदाऽऽत्मीये तीर्थे आचारार्थप्रणयनावसानाध्ययने स्वतपःकर्म व्यावर्णयतीत्ययं सर्वतीर्थकृतां कल्पः, इह पुनरुपधानश्रुताख्यं चरममध्ययनमभूत् अत उपधानश्रुतमित्युक्तमिति ॥ किमेकाकारं केवलज्ञानवत्सर्वतीर्थकृतां तपःकर्मोतान्यथेत्यारेकाव्युदासार्थमाह ॥२९६॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy