SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ उपधा०९ उद्देशका श्रीआचा- यत् श्रुतं द्रव्यार्थं वा यत् श्रुतं कुप्रावचनिकश्रुतानि चेति द्रव्यश्रुतम् , भावश्रुतं त्वङ्गानङ्गप्रविष्टश्रुतविषयोपयोगः॥ राङ्गवृत्तिः तत्र सुगमनामस्थापनाव्युदासेन द्रव्याद्युपधानप्रतिपादनायाह(शी०) । दम्वुवहाणं सयणे भावुवहाणं तवो चरित्तस्स । तम्हा उ नाणदंसणतवचरणेहिं इहाहिगयं ॥ २८२ ॥ उप-सामीप्येन धीयते-व्यवस्थाप्यत इत्युपधानं द्रव्यभूतमुपधानं द्रव्योपधानं, तत्पुनः शय्यादौ सुखशयनार्थ शिरो॥२९७॥ ऽवष्टम्भनवस्तु, 'भावोपधान मिति भावस्योपधानं भावोपधानं, तत्पुनर्ज्ञानदर्शनचारित्राणि तपो वा सवाह्याभ्यन्तरं, तेन हि चारित्रपरिणतभावस्योपष्टम्भनं क्रियते, यत एवं तस्मात् ज्ञानदर्शनतपश्चरणैरिहाधिकृतमिति गाथार्थः ॥ किं पुनः दि कारणं चारित्रोपष्टम्भकतया तपो भावोपधानमुच्यते इत्याह जह खलु मइलं वत्थं सुज्झइ उदगाइएहिं दव्वेहिं । एवं भावुवहाणेण सुज्झए कम्ममट्ठविहं ॥ २८॥ 'यथे'त्युदाहरणोपन्यासार्थः यथैतत्तथाऽन्यदपि द्रष्टव्यमित्यर्थः, खलुशब्दो वाक्यालङ्कारे, यथा मलिनं वस्त्रमुदकादिभिर्द्रव्यैः शुद्धिमुपयाति एवं जीवस्यापि भावोपधानभूतेन सबाह्याभ्यन्तरेण तपसा अष्टप्रकारं कर्म शुद्धिमुपयातीति ॥ अस्य च कर्मक्षयहेतोस्तपस उपधानश्रुतत्वेनात्रोपात्तस्य 'तत्त्वभेदपर्यायैर्व्याख्ये तिकृत्वा पर्यायदर्शनायाह-यदिवा तपोऽनुष्ठानेनापादिता अवधूननादयः कापगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयितुमाहओधूणण धुणण नासण विणासणं झवण खवण सोहिकरं।छेयण भेयण फेडण डहणं धुवणं च कम्माणं ॥२८४॥ तत्रावधूननम्-अपूर्वकरणेन कर्मग्रन्थेर्भेदापादनं, तच्च तपोऽन्यतरभेदसामर्थ्याद्भवतीत्येषा क्रिया शेषेष्वप्येकादश ||२९७॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy