SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ सुपदेष्वायोज्या, तथा 'धूननं' भिन्नग्रन्थेरनिवर्त्तिकरणेन सम्यक्त्वावस्थानं, तथा 'नाशनं' कर्मप्रकृतेः स्तिबुकसङ्क्रमेण प्रकृत्यन्तरगमनं, तथा 'विनाशनं' शैलेश्यवस्थायां सामस्त्येन कर्माभावापादनं, तथा ध्यापनम् - उपशमश्रेण्यां कर्मानुदयलक्षणं विध्यापनं, तथा 'क्षपणम्' अप्रत्याख्यानादिप्रक्रमेण क्षपकश्रेण्यां मोहाद्यभावापादनं, तथा 'शुद्धिकर' मित्यनन्तानुबन्धिक्षयप्रक्रमेण क्षायिकसम्यक्त्वापादनं, तथा 'छेदनम्' उत्तरोत्तरशुभाध्यवसायारोहणात्स्थितिहासजननं, तथा 'भेदनं' बादरसम्परायावस्थायां सञ्जवलन लोभस्य खण्डशो विधानं, तथा 'फेडण’'न्ति अपनयनं चतुःस्थानिकादीनामशुभप्रकृतीनां रसतख्यादिस्थानापादनं, तथा 'दहनं' केवलिसमुद्घातध्यानाग्निना वेदनीयस्य भस्मसात्करणं, शेषस्य च दग्धरज्जुतुल्यत्वापादनं, तथा 'धावनं' शुभाध्यवसायान्मिथ्यात्वपुद्गलानां सम्यक्त्वभावसंजननमिति, एताश्च कर्म्मणोऽवस्थाः प्रायश उपशमश्रेणिक्षपकश्रेणि केवलिसमुद्घात शैलेश्यवस्थाप्रकटनेन प्रभूता आविर्भाविता भवन्तीत्यतस्तत्प्रकटनाय प्रक्रम्यते, तत्रोपशमश्रेण्यामादावेवानन्तानुबन्धिनामुपशमना तावत्कथ्यते, इहासंयत सम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतरोऽन्यतरयोगे वर्त्तमान आरम्भको भवति, तत्रापि दर्शन सप्तकमे केनोपशमयति, तद्यथा-अनन्तानुबन्धिनश्चतुरः, उपरितन लेश्यात्रिके च विशुद्धे साकारोपयोग्यन्तःकोटीकोटीस्थितिसत्कर्म्मा परिवर्त्तमानाः शुभप्रकृतीरेव बनन् प्रतिसमयमशुभप्रकृतीनामनुभागमनन्तगुणहान्या ह्रासयन् शुभानां चानन्तगुणवृद्ध्याऽनुभागं व्यवस्थापयन् पल्योपमासङ्ख्येय भागहीनमुत्तरोत्तरं स्थितिबन्धं कुर्वन् करणकालादपि पूर्वमन्तर्मुहूर्त्त विशुध्यमानः करणत्रयं विधत्ते तच्च प्रत्येकमान्तर्मौहूर्त्तिकं, तद्यथा-यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं चेति, चतुर्युप ++++
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy