SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥२९८॥ SOCCASIASMAX शान्ताद्धा, तत्र यथाप्रवृत्तकरणे प्रतिसमयमनन्तगुणवृद्ध्या विशुद्धिमनुभवति, न तत्र स्थितिघातरसघातगुणश्रेणीगुण उपधा०९ सङ्कमाणामन्यतमोऽपि विद्यते, तथा द्वितीयमपूर्वकरणं, किमुकं भवति ?-अपूर्वामपूर्वी क्रियां गच्छतीत्यपूर्वकरणं, तत्र च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्कमा अन्यश्च स्थितिबन्ध इत्येते पश्चाप्यधिकारा योगपद्येन पूर्वम उद्देशकः१ प्रवृत्ताः प्रवर्तन्त इत्यपूर्वकरणं, तथाऽनिवृत्तिकरणमित्यन्योऽन्यं नातिवर्तन्ते परिणामा अस्मिन्नित्यनिवृत्तिकरणं, एतदुक्तं भवति-प्रथमसमयप्रतिपन्नानां तत्करणमसुमतां सर्वेषां तुल्यः परिणामः, एवं द्वितीयादिष्वप्यायोज्यं, अत्रापि पू-| वोक्ता एव स्थितिघातादयः पञ्चाप्यधिकारा युगपत्प्रवर्त्तन्त इति, तत एभिस्त्रिभिरपि करणैर्यथोक्तक्रमणानन्तानुबन्धिनः कषायानुपशमयति, उपशमनं नाम यथा धूलिरुदकेन सिक्का दुघणादिभिर्हता न वाय्वादिभिः प्रसर्पणादिविकारभाग्भवति, एवं कर्मधूल्यपि विशुद्ध्युदकाद्रीकृता अनिवृत्तिकरणक्रियाहता सत्युदयोदीरणसङ्कमनिधत्तनिकाचनाकरणानामयोग्या भवति, तत्रापि प्रथमसमयोपशान्तं कर्मदलिकं स्तोकं द्वितीयादिषु समयेष्वसङ्ख्येयगुणवृद्ध्योपशम्यमानमन्तर्मुहूर्तेन सर्वमप्युपशान्तं भवति, एवमेकीयमतेनानन्तानुबन्धिनामुपशमोऽभिहितः, अन्ये त्वनन्तानुबन्धिनां विसंयोजनामेवाभिदधति, तद्यथा-क्षायोपशमिकसम्यग्दृष्टयश्चतुर्गतिका अप्यनन्तानुबन्धिनां विसंयोजकाः, तत्र नारका देवा | अविरतसम्यग्दृष्टयस्तियश्चोऽविरतदेशविरता मनुष्या अविरतदेशविरतप्रमत्ताप्रमत्ताः, एते सर्वेऽपि यथासम्भवं विशो|धिविवेकेन परिणता अनन्तानुबन्धिविसंयोजनार्थ प्रागुक्तं करणत्रयं कुर्वन्ति, तत्राप्यनन्तानुबन्धिनां स्थितिमपवर्त्तय- ॥२९८॥ नपवर्तयन् यावत्सल्योपमासङ्ख्येयभागमात्रा तावद्विधत्ते, तमपि पल्योपमासङ्ख्ययभागं बध्यमानासु मोहप्रकृतिषु
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy