SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥२९८॥ SOCCASIASMAX शान्ताद्धा, तत्र यथाप्रवृत्तकरणे प्रतिसमयमनन्तगुणवृद्ध्या विशुद्धिमनुभवति, न तत्र स्थितिघातरसघातगुणश्रेणीगुण उपधा०९ सङ्कमाणामन्यतमोऽपि विद्यते, तथा द्वितीयमपूर्वकरणं, किमुकं भवति ?-अपूर्वामपूर्वी क्रियां गच्छतीत्यपूर्वकरणं, तत्र च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्कमा अन्यश्च स्थितिबन्ध इत्येते पश्चाप्यधिकारा योगपद्येन पूर्वम उद्देशकः१ प्रवृत्ताः प्रवर्तन्त इत्यपूर्वकरणं, तथाऽनिवृत्तिकरणमित्यन्योऽन्यं नातिवर्तन्ते परिणामा अस्मिन्नित्यनिवृत्तिकरणं, एतदुक्तं भवति-प्रथमसमयप्रतिपन्नानां तत्करणमसुमतां सर्वेषां तुल्यः परिणामः, एवं द्वितीयादिष्वप्यायोज्यं, अत्रापि पू-| वोक्ता एव स्थितिघातादयः पञ्चाप्यधिकारा युगपत्प्रवर्त्तन्त इति, तत एभिस्त्रिभिरपि करणैर्यथोक्तक्रमणानन्तानुबन्धिनः कषायानुपशमयति, उपशमनं नाम यथा धूलिरुदकेन सिक्का दुघणादिभिर्हता न वाय्वादिभिः प्रसर्पणादिविकारभाग्भवति, एवं कर्मधूल्यपि विशुद्ध्युदकाद्रीकृता अनिवृत्तिकरणक्रियाहता सत्युदयोदीरणसङ्कमनिधत्तनिकाचनाकरणानामयोग्या भवति, तत्रापि प्रथमसमयोपशान्तं कर्मदलिकं स्तोकं द्वितीयादिषु समयेष्वसङ्ख्येयगुणवृद्ध्योपशम्यमानमन्तर्मुहूर्तेन सर्वमप्युपशान्तं भवति, एवमेकीयमतेनानन्तानुबन्धिनामुपशमोऽभिहितः, अन्ये त्वनन्तानुबन्धिनां विसंयोजनामेवाभिदधति, तद्यथा-क्षायोपशमिकसम्यग्दृष्टयश्चतुर्गतिका अप्यनन्तानुबन्धिनां विसंयोजकाः, तत्र नारका देवा | अविरतसम्यग्दृष्टयस्तियश्चोऽविरतदेशविरता मनुष्या अविरतदेशविरतप्रमत्ताप्रमत्ताः, एते सर्वेऽपि यथासम्भवं विशो|धिविवेकेन परिणता अनन्तानुबन्धिविसंयोजनार्थ प्रागुक्तं करणत्रयं कुर्वन्ति, तत्राप्यनन्तानुबन्धिनां स्थितिमपवर्त्तय- ॥२९८॥ नपवर्तयन् यावत्सल्योपमासङ्ख्येयभागमात्रा तावद्विधत्ते, तमपि पल्योपमासङ्ख्ययभागं बध्यमानासु मोहप्रकृतिषु
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy