Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 621
________________ montrents धर्माचरणमित्याकलय्य सर्वपीडासहिष्णुर्भवेदिति ॥१८॥ गत इङ्गितमरणाधिकारः, साम्प्रतं पादपोपगमनमाश्रित्याहअनन्तरमभिधास्यमानत्वाद्योऽयं प्रत्यक्षो मरणविधिः, स चाऽऽयततरो, न केवलं भक्तपरिज्ञाया इङ्गितमरणविधिरायततरः, अयं च तस्मादायततर इति चशब्दार्थः, आयततर इत्याडभिविधौ सामस्त्येन यत आयतः, अयमनयोरतिशयेनायत आयततरः, यदिवाऽयमनयोरतिशयेनात्तो-गृहीत आत्ततरः, यलेनाध्यवसित इत्यर्थः, तदेवमयं पादपोपगमनमरणविधिरात्ततरो-दृढतरः स्याद्भवेत् , अत्रापि यदिङ्गितमरणे प्रव्रज्यासंलेखनादिकमुक्तं तत्सर्वं द्रष्टव्यमिति, यद्यसावायततरः ततः किमिति दर्शयति-यो भिक्षुः 'एवम् उक्तविधिनैव पादपोपगमनविधिमनुपालयेत् 'सर्वगात्रनिरोधेऽपि' उत्तप्यमानकायोऽपि मूर्च्छन्नपि मरणसमुद्घातगतो वा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टगृद्रपिपीलिकादिभिर्महासत्त्वतयाऽऽशंसितमहाफलविशेषः संस्तस्मात्स्थानात्-प्रदेशात् द्रव्यतो भावतोऽपि शुभाध्यवसायस्थानान्न व्युद्धमेत्-न स्थानान्तरं यायात् ॥ १९॥ किं च-'अय' मित्यन्तःकरणनिष्पन्नत्वात्प्रत्यक्षः 'उत्तमः' प्रधानो मरणविधिः सर्वोसरत्वाद्धर्मो-विशेषः पादपोपगमनरूपो मरणविशेष इति, उत्तमत्वे कारणं दर्शयति-'पूर्वस्थानस्य प्रग्रह' इति पञ्चम्यर्थे पष्ठी पूर्वस्थानाद्भक्तपरिज्ञेङ्गितमरणरूपाप्रकर्षण ग्रहोऽत्र पादपोपगमने, प्रगृहीततरमेतदित्यर्थः, तथाहि-अत्र यदिङ्गितमरणानुमतं कायपरिस्पन्दनं तदपि निषेध्यते अच्छिन्नमूलपादपवन्निश्चेष्टो निष्क्रियो दह्यमानश्छिद्यमानो वा विषमपतितो वा तथैवास्ते न तस्मात्स्थानाच्चलति, चिलातपुत्रवत्, एतदेव दर्शयति-अचिरं स्थानं, तच्च स्थण्डिलं तत्पूर्वविधिना प्रत्युपेक्ष्य तस्मिन् प्रत्युपेक्षिते स्थण्डिले विहरेदिति, अत्र पादपोपगमनाधिकाराद्विहरणं तद्विधिपालनमुक्तं, तच्च स्थाना

Loading...

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668