________________
भिक्खूणं असणं वा ४ आह९ नो दलइस्सामि आहडं च नो साइजिस्सामि ४, अहं च खलु तेण अहाइरित्तेण अहेसणिजेण अहापरिग्गहिएणं असणेण वा ४ अभिक साहम्मियस्स कुजा वेयावडियं करणाए, अहं वावि तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा पाणेण वा ४ अभिकङ्क साहम्मिएहिं कीरमाणं वेयावडियं साइजिस्सामि लाघवियं आगममाणे जाव सम्मत्तमेव समभि
जाणिया (सू० २२५) एतच्च पूर्व व्याख्यातमेव, केवलमिह संस्कृतेनोच्यते-यस्य भिक्षोरेवं भवति-वक्ष्यमाणम् , तद्यथा-अहं च खल्वन्येभ्योभिक्षुभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च स्वादयिष्यामीत्येको भङ्गकः १, तथा यस्य भिक्षोरेवं भवति, तद्यथा-अहं च खल्वन्येभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च नो स्वादयिष्यामीति द्वितीयः २ यस्य भिक्षोरेवं भवति, तद्यथाअहं च खल्वन्येभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च स्वादयिष्यामीति तृतीयः ३ तथा यस्य भिक्षोरेवं भवति, तद्यथा-अहं च खल्वन्येभ्यो भिक्षुभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च नो स्वादयिष्यामीति चतुर्थः ४ । इत्येवं चतुर्णामभिग्रहाणामन्यतरमभिग्रहं गृह्णीयात्, अथवा एतेषामेवाद्यानां त्रयाणां भङ्गानामेकपदेनैव कश्चिदभिग्रहं गृही