Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
कस्य सम्बन्धि तदायुः-आत्मनः, एतदुक्तं भवति-आत्मायुषो यं क्षेमप्रतिपालनोपायं जानीत तं क्षिप्रमेव शिक्षेत-व्यापारयेत् पण्डितो-बुद्धिमान् , 'तस्यैव' संलेखनाकालस्य 'अन्तरद्धाए'त्ति अन्तरकालेऽ संलिखित एव देहे देही यदि कश्चित् वातादिक्षोभात् आतङ्कः आशुजीवितापहारी स्यात् ततः समाधिमरणमभिकाङ्क्षन् तदुपशमोपायमेषणीयविधिनाऽभ्यङ्गादिकं विदध्यात्, पुनरपि संलिखेत्, यदिवाऽऽत्मनः आयुःक्षेमस्य-जीवितस्य यत्किमप्युपक्रमणम्-आयुःपुद्गलानां संवर्तनं समुपस्थितं तज्जानीत, ततस्तस्यैव संलेखनाकालस्य मध्येऽव्याकुलितमतिः क्षिप्रमेव भक्तपरिज्ञानादिकं शिक्षेत |-आसेवेत पण्डितो-बुद्धिमानिति ॥ ६॥ संलेखनाशुद्धकायश्च मरणकालं समुपस्थितं ज्ञात्वा किं कुर्यादित्याह-ग्रामःप्रतीतो, ग्रामशब्देन चात्र प्रतिश्रय उपलक्षितः, प्रतिश्रय एव स्थण्डिलं-संस्तारकभुवं प्रत्युपेक्ष्य, तथा अरण्ये वेत्यनेन चोपाश्रया(हिरित्येतदुपलक्षितम्, उद्याने गिरिगुहायामरण्ये वा स्थण्डिलं प्रत्युपेक्ष्य विज्ञाय चाल्पप्राण-प्राणिरहितम् , मामादियाचितानि प्रासुकानि दर्भादिमयानि तृणानि संस्तरेत् 'मुनिः' यथोचितकालस्य वेत्तेति॥७॥संस्तीर्य च तृणानि यत्कुर्यात्तदाह-न विद्यते आहारोऽस्येत्यनाहारः तत्र यथाशक्ति यथासमाधानं च त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्यायारोपितपञ्चमहाव्रतः क्षान्त:-क्षामितसमस्तप्राणिगणः समसुखदुःखः आवर्जितपुण्यप्राग्भारतया मरणादबिभ्यत् संस्तारके त्वग्वर्त्तनं कुर्यात् , तत्र च स्पृष्टः परीपहोपसर्गस्त्यक्तदेहतया सम्यक्कानध्यासयेद्-अधिसहेत, तत्र मानुष्यैरनुकूलप्रतिकूलैः परीपहोपसर्गः स्पृष्टो-व्याप्तो नातिवेलमुपचरेत्-न मर्यादोल्लङ्घनं कुर्यात्, पुत्रकलत्रादिसम्बन्धानार्तध्यानवशगो भूयात् , प्रतिकूलैर्वा परीषहोपसर्गर्ने क्रोधनिघ्नः स्यादिति ॥ ८॥ एतदेव दर्शयितुमाह

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668