SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ कस्य सम्बन्धि तदायुः-आत्मनः, एतदुक्तं भवति-आत्मायुषो यं क्षेमप्रतिपालनोपायं जानीत तं क्षिप्रमेव शिक्षेत-व्यापारयेत् पण्डितो-बुद्धिमान् , 'तस्यैव' संलेखनाकालस्य 'अन्तरद्धाए'त्ति अन्तरकालेऽ संलिखित एव देहे देही यदि कश्चित् वातादिक्षोभात् आतङ्कः आशुजीवितापहारी स्यात् ततः समाधिमरणमभिकाङ्क्षन् तदुपशमोपायमेषणीयविधिनाऽभ्यङ्गादिकं विदध्यात्, पुनरपि संलिखेत्, यदिवाऽऽत्मनः आयुःक्षेमस्य-जीवितस्य यत्किमप्युपक्रमणम्-आयुःपुद्गलानां संवर्तनं समुपस्थितं तज्जानीत, ततस्तस्यैव संलेखनाकालस्य मध्येऽव्याकुलितमतिः क्षिप्रमेव भक्तपरिज्ञानादिकं शिक्षेत |-आसेवेत पण्डितो-बुद्धिमानिति ॥ ६॥ संलेखनाशुद्धकायश्च मरणकालं समुपस्थितं ज्ञात्वा किं कुर्यादित्याह-ग्रामःप्रतीतो, ग्रामशब्देन चात्र प्रतिश्रय उपलक्षितः, प्रतिश्रय एव स्थण्डिलं-संस्तारकभुवं प्रत्युपेक्ष्य, तथा अरण्ये वेत्यनेन चोपाश्रया(हिरित्येतदुपलक्षितम्, उद्याने गिरिगुहायामरण्ये वा स्थण्डिलं प्रत्युपेक्ष्य विज्ञाय चाल्पप्राण-प्राणिरहितम् , मामादियाचितानि प्रासुकानि दर्भादिमयानि तृणानि संस्तरेत् 'मुनिः' यथोचितकालस्य वेत्तेति॥७॥संस्तीर्य च तृणानि यत्कुर्यात्तदाह-न विद्यते आहारोऽस्येत्यनाहारः तत्र यथाशक्ति यथासमाधानं च त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्यायारोपितपञ्चमहाव्रतः क्षान्त:-क्षामितसमस्तप्राणिगणः समसुखदुःखः आवर्जितपुण्यप्राग्भारतया मरणादबिभ्यत् संस्तारके त्वग्वर्त्तनं कुर्यात् , तत्र च स्पृष्टः परीपहोपसर्गस्त्यक्तदेहतया सम्यक्कानध्यासयेद्-अधिसहेत, तत्र मानुष्यैरनुकूलप्रतिकूलैः परीपहोपसर्गः स्पृष्टो-व्याप्तो नातिवेलमुपचरेत्-न मर्यादोल्लङ्घनं कुर्यात्, पुत्रकलत्रादिसम्बन्धानार्तध्यानवशगो भूयात् , प्रतिकूलैर्वा परीषहोपसर्गर्ने क्रोधनिघ्नः स्यादिति ॥ ८॥ एतदेव दर्शयितुमाह
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy