________________
श्रीआचाराङ्गवृत्तिः
(शी० )
॥ २९१ ॥
संसप्पा य जे पाणा, जे य उड्डमहाचरा । भुञ्जन्ति मंससोणियं, न छणे न पमजए ॥ ९ ॥ पणा देहं विहिंसन्ति, ठाणाओ नवि उब्भमे। आसवेहिं विवित्तहिं, तिप्पमाणोऽहियास ॥ १० ॥ गन्धेहिं विवित्तहिं, आउकालस्स पारए । पग्गहियतरगं चेयं, दवियस्स वियाणओ ॥ ११ ॥ अयं से अवरे धम्मे, नायपुत्त्रेण साहिए। आयवज्जं पडीयारं, विजहिज्जा तिहा तिहा ॥ १२ ॥
संसर्पन्तीति संसर्पकाः - पिपीलिकाक्रोष्ट्रादयो ये प्राणाः प्राणिनो ये चोर्द्धचरा-गृध्रादयो ये चाधश्चराः बिलवासित्वात्सर्पादयस्त एवंभूता नानाप्रकाराः 'भुञ्जन्ते' अभ्यवहरन्ति मांसं सिंहव्याघ्रादयः तथा शोणितं मशकादयः, तांश्च प्राणिन आहारार्थिनः समागतानंवन्तिसुकुमारबद्धस्तादिभिन्न क्षणुयात् न हन्यात् न च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमार्जयेदिति ॥ ९ ॥ किं च प्राणाः प्राणिनो देहं मम (वि) हिंसन्ति, न तु पुनर्ज्ञानदर्शनचारित्राणीत्यतस्त्यतदेहाशिनस्तानन्तरायभयान्न निषेधयेत् तस्माच्च स्थानान्नाप्युद्धमेत् - नान्यत्र यायात्, किंभूतः सन् ? - आश्रवैः- प्राणातिपातादिभिर्विषयकषायादिभिर्वा 'विविक्तैः' पृथग्भूतैरं विद्यमानैः शुभाध्यवसायी तैर्भक्ष्यमाणोऽप्यमृतादिना तृप्यमाण इव सम्यक्तत्कृतां वेदनां तैस्तप्यमानो वाऽध्यासयेद् - अधिसहेत ॥ १० ॥ किं चग्रन्थैः सबाह्याभ्यन्तरैः शरीररागादिभिः 'विविक्तैः ' त्यक्तैः सद्भिर्ग्रन्यैर्वा - अङ्गानङ्गप्रविष्टैरात्मानं भावयन् धर्म्मशुक्ल
विमो०.८
उद्देशकः८
॥ २९१ ॥