________________
ध्यानान्यतरोपेतः 'आयुःकालस्य' मृत्युकालस्य : 'पारगः' पारगामी स्यात् यावदन्त्या उच्छ्रासनिश्वासास्तावत्तद्विदध्याद्, एतन्मरणविधानकारी सिद्धिं त्रिविष्टपं वा प्राप्नुयादिति गतं भक्तपरिज्ञामरणं । साम्प्रतमिङ्गितमरणं श्लोकार्द्धादिनोच्यतेतद्यथा - 'प्रगृहीततरकं चेदं' प्रकर्षेण गृहीततरं प्रगृहीततरं तदेव प्रगृहीततरकम्, 'इदमिति वक्ष्यमाणमिङ्गितमरणम्, एतद्धि भक्तप्रत्याख्यानात्सकाशान्नियमेन चतुर्विधाहारप्रत्याख्यानादिङ्गितप्रदेश संस्तारकमात्रविहाराभ्युपगमाच्च विशिष्टतरधृतिसंहननाद्युपेतेन प्रकर्षेण गृह्यत इति, कस्यैतद्भवति ? - द्रव्यं - संयमः स विद्यते यस्यासौ द्रविकस्तस्य 'विजानतो' गीतार्थस्य जघन्यतोऽपि नवपूर्वविशारदस्य भवति नान्यस्येति, अत्रापीङ्गितमरणे यत्संलेखना तृणसंस्तारादिकमभिहितं तत्सर्वं वाच्यम् ॥ ११ ॥ अयमपरो विधिरित्याह- 'अयं स' इति सोऽयम् ' अपरः' अन्यो भक्तप्रत्याख्यानाद्भिन्न इङ्गितमरणस्य 'धम्र्मो' विशेषो 'ज्ञातपुत्रेण' वीरवर्द्धमानस्वामिना सुष्ठुाहितः - उपलब्धः स्वाहितः, अस्य चानन्तरं वक्ष्यमाणत्वात्प्रत्यक्षासन्नवाचिनेदमाऽभिधानं, अत्रापीतिमरणे प्रत्रज्यादिको विधि: संलेखना च पूर्वद्रष्टव्या, तथोपकरणादिकं हित्वा स्थण्डिलं प्रत्युपेक्ष्यालोचितप्रतिक्रान्तः पञ्च महाव्रतारूढश्चतुर्विधमाहारं प्रत्याख्याय संस्तारके तिष्ठति, अयमत्र विशेषः - आत्मवर्ज प्रतिचारम् - अङ्गव्यापारं विशेषेण जह्यात् त्यजेत् 'त्रिविधत्रिविधेने' ति मनोवाक्कायैः कृतकारितानुमतिभिः स्वव्यापारव्यतिरेकेण परित्यजेत् स्वयमेव चोद्वर्त्तनपरिवर्त्तनं कायिकायोगादिकं | विधत्ते ॥ १२ ॥ सर्वथा प्राणिसंरक्षणं पौनःपुन्येन विधेयमिति दर्शयितुमाह ॥
हरिएसु न निवज्जिज्जा, थण्डिलं मुणिया सए । विओसिज अणाहारो, पुटो तत्थ