________________
श्रीआचाराङ्गवृत्तिः (शी०)
विमो०८ उद्देशका
॥२९२॥
हियासए ॥ १३ ॥ इन्दिएहिं गिलायन्तो, समियं आहरे मुणी। तहावि से अगरिहे, अचले जे समाहिए ॥ १४ ॥ अभिक्कमे पडिक्कमे, सङ्कुचए पसारए। कायसाहारणटाए, इत्थं वावि अचेयणो ॥ १५ ॥ परिक्कमे परिकिलन्ते, अदुवा चिट्टे अहायए ।
ठाणे ण परिकिलन्ते, निसीइज्जा य अंतसो ॥ १६ ॥ हरितानि-दर्वाङ्करादीनि तेषु न शयीत स्थण्डिलं मत्वा शयीत तथा सबाह्याभ्यन्तरमुपधिं व्युत्सृज्य-त्यक्त्वाऽनाहारः सन् स्पृष्टः परीषहोपसर्गः 'तत्र' तस्मिन् संस्तारके व्यवस्थितः सन् सर्वमध्यासयेद्-अधिसहेत ॥ १३ ॥ किंचस ह्यनाहारतया मुनिलायमान इन्द्रियैः शमिनो भावः शमिता-समता तां साम्यं वा आत्मन्याहारयेद्-व्यवस्थापयेत् नार्तध्यानोपगतो भूयादिति, यथासमाधानमास्ते, तद्यथा-सङ्कोचननिर्विणो हस्तादिकं प्रसारयेत् तेनापि निर्विण्ण उपविशेत् यथेङ्गितदेशे सञ्चरेद्वा, तथाप्यसौ स्वकृतचेष्टत्वादगी एव, किंभूत इति दर्शयति-अचलो यः समाहितः, यद्यप्यसाविङ्गितप्रदेशे स्वतः शरीरमात्रेण चलति तथाप्यभ्युद्यतमरणान्न चलतीत्यचलः सम्यगाहितं-व्यवस्थापितं धर्मध्याने शुक्लध्याने वा मनो येन स समाहितः, भावाचलितश्चेङ्गितप्रदेशे चङ्क्रमणादिकमपि कुर्यादिति ॥१४॥ एतदर्शयितुमाह -प्रज्ञापकापेक्षयाऽभिमुखं क्रमणमभिक्रमणं, संस्तारकाद्गमनमित्यर्थः, तथा प्रतीपं-पश्चादभिमुखं क्रमणं प्रतिक्रमण- मागमनमित्यर्थः, नियतदेशे गमनागमने कुर्यादितियावत् , तथा निष्पन्नो निषण्णो वा यथासमाधानं भुजादिकं सङ्को
॥२९२॥