________________
चयेनसारयेद्वा, किमर्थमेतदिति चेदर्शयति-कायस्य-शरीरस्य प्रकृतिपेलवस्य साधारणार्थ, कायसाधारणाच्च तत्पीडाक|तायुष्कोपक्रमपरिहारेण स्वायुःस्थितिक्षयान्मरणं यथा स्यात्, न पुनस्तेषां महासत्त्वतया शरीरपीडोत्थापितचित्तस्यान्यथाभावः स्यादिति भावः, ननु च निरुद्धसमस्तकायचेष्टस्य शुष्ककाष्ठवदचेतनतया पतितस्य प्रचुरतरपुण्यप्राग्भारोऽभिहित इति, नायं नियमः, संविशुद्धाध्यवसायतया. यथाशक्त्यारोपितभारनिर्वाहिणः तत्तुल्य एव कर्मक्षयः अत्राप्यसौ वाशब्दात्तत्र वा पादपोपगमनेऽचेतनवत्सक्रियोऽपि निष्क्रिय एव, यदिवा 'अत्रापि' इङ्गितमरणेऽचेतनवच्छुष्ककाष्ठवत्सक्रियारहितो यथा पादपोपगमने तथा सति सामर्थ्य तिष्ठेद् ॥ १५ ॥ एतत्सामर्थ्याभावे चैतत्कुर्यादित्याह-यदि निषण्णस्यानिषण्णस्य वा गात्रभङ्गः स्यात् , ततः परिकामेत्-चक्रम्याद् यथानियमिते. देशेऽकुटिलया गत्या गतागतानि कुर्यात् , तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठेत् , 'यथायतो' यथाप्रणिहितगात्र इति, यदा पुनः स्थानेनापि परिक्लममियात् तद्यथा-निषण्णो वा पर्यङ्केण वा अर्द्धपर्यङ्केण वोत्कुटुकासनो वा परिताम्यति तदा निषण्णः स्यात् , तत्राप्युत्तानको वा पार्श्वशायी वा दण्डायतो वा लगण्डशायी वा यथा समाधानमवतिष्ठेत् ॥ १६ ॥ किं च
आसीणेऽणेलिसं मरणं, इन्दियाणि समीरए । कोलावासं समासज, वितहं पाउरे सए ॥ १७ ॥ जओ वजं समुप्पजे, न तत्थ अवलम्बए । तउ उकसे अप्पाणं, फासे तत्थऽहियासए ॥ १८ ॥ अयं चाययतरे सिया, जो एवमणुपालए। सव्वगायनिरो