Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
श्रीआचा- रावृत्तिः (शी०)
॥२८४॥
अवसरे संयमावसरे ग्लायामि ग्लानिमेव गतो रूक्षाहारतया तत्समुत्थेन वा रोगेण पीडितोऽतो न शक्नोमि रूक्षतपो- विमो०८ भिरभिनिष्टप्तं शरीरकमानुपूर्व्या-यथेष्टकालावश्यकक्रियारूपया परिवोढुं-नालमहं क्रियासु व्यापारयितुम् , अस्मिन्नवसरे
उद्देशका इदं प्रतिक्षणं शीर्यमाणत्वाच्छरीरकमिति मत्वा स भिक्षुरानुपूर्व्या-चतुर्थषष्ठाचाम्लादिकया आहारं 'संवर्तयेत्' संक्षिपेत् न पुनादशसंवत्सरसंलेखनाऽऽनुपूर्वीह गृह्यते, ग्लानस्य तावन्मात्रकालस्थितेरभावाद् , अतस्तत्कालयोग्ययाऽऽनुपूर्व्या द्रव्यसंलेखनार्थमाहारं निरन्ध्यादिति । द्रव्यसंलेखनया संलिख्य च यदपरं कुर्यात्तदाह-षष्ठाष्टमदशमद्वादशादिकयाऽऽनु-I पूर्व्याऽऽहारं संवर्त्य कपायान् प्रतनून कृत्वा सर्वकालं हि कषायतानवं विधेयं विशेषतस्तु संलेखनावसरे इत्यतस्तान् प्रतनून | कृत्वा सम्यगाहिता-व्यवस्थापिता अर्चा-शरीरं येन स समाहितार्चः, नियमितकायव्यापार इत्यर्थः, यदिवा अर्चालेश्या सम्यगाहिता-जनिता लेश्या येन स समाहितार्चः, अतिविशुद्धाध्यवसाय इत्यर्थः, यदिवाऽर्चा-क्रोधाद्यध्यवसायात्मिका ज्वाला समाहिता-उपशमिताऽर्चा येन स तथा, 'फलं' कर्मक्षयरूपं तदेव फलकं तेनापदि-संसारभ्रमणरूपायामर्थः-प्रयोजनं फलकापदर्थः स विद्यते यस्वासौ फलकापदर्थी, यदिवा फलकवद्वास्यादिभिरुभयतो वाह्यतोऽभ्यन्तरतश्चावकृष्टः फलकावकृष्ट इत्येवं विगृह्यापत्वात् 'फलगावयट्ठी' इत्युक्तं, यदिवा तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कपायाभावतया फलकवदवतिष्ठते तच्छीलश्चेति फलकावस्थायी, वासीचन्दनकल्प इत्यर्थः, स एवम्भूतः प्रतिदिनं साकारभक्तप्रत्याख्यायी बलवति रोगावेगे उत्थाय-अभ्युद्यतमरणोद्यम विधायाभिनिर्वृत्ताः -शरीरसन्तापरहितो धृतिसं-15|| ॥२८४॥ हननाद्युपतो महापुरुषाचीणेमार्गानुविधायीङ्गितमरणं कुर्यात् ॥ कथं कुयोंदित्याह

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668