Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
*****
**
****
साकारं प्रत्याख्यान, साकारप्रत्याख्यानस्यान्यस्मिन्नपिकाले जिनकल्पिकादेरसम्भवात्, किं पुनर्यावत्कथिकभक्तमत्याख्यानावसर इति, इत्वरं हि रोगातुरः श्रावको विधत्ते, तद्यथा-यद्यहमस्माद्रोगात् पञ्चभैरहोभिर्मुक्तः स्यां ततो भोक्ये, नान्यथेत्यादि, तदेवमित्वरम्-इजितमरणं धृतिसंहननादिबलोपेतः स्वकृतत्वग्वर्तनादिक्रियो यावज्जीवं चतुर्विधाहारनियम | कुर्यादिति, उक्तं च-"पञ्चक्खइ आहारं चउब्विहं णियमओ गुरुसमीवे । इंगियदेसंमि तहा चिट्ठपि हु नियमओ कुणइ ॥१॥ उब्वत्तइ परिअत्तइ काइगमाईऽवि अप्पणा कुणइ । सव्वमिह अप्पणच्चिअ ण अन्नजोगेण धितिबलिओ ॥२॥” तच्चेङ्गितमरणं किम्भूतं किम्भूतश्च प्रतिपद्यत इत्याह-'तद्' इङ्गितमरणं सद्भयो हितं सत्यं, सुगतिगमनाविसंवादनात्सर्वज्ञोपदेशाच्च सत्य-तथ्यं, तथा स्वतोऽपि सत्यं वदितुं शीलमस्येति सत्यवादी, यावज्जीवं यथोक्तानुष्ठानाद्यथाऽऽरोपितप्रतिज्ञाभारनिर्वहणादित्यर्थः, तथा 'ओजः' रागद्वेपरहितः, तथा 'तीर्णः' संसारसागरं, भाविनि भूतवदुपचारात्तीर्णवत्तीर्ण इत्यर्थः, तथा 'छिन्ना' अपनीता 'कथं' कथमपि या 'कथा' रागकथादिका विकथारूपा येन स छिन्नकथंकथः, यदिवा कथमहमिङ्गितमरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा या कथा सा छिन्ना येन स छिन्नकथंकथः, दुष्करानुष्ठानविधायी हि कथंकथी भवति, स तु पुनमहापुरुषतया न व्याकुलतामियादिति, तथा आ-समन्तादतीव इताज्ञाता परिच्छिन्ना जीवादयोऽर्थी येन सोऽयमातीतार्थः आदत्तार्थो वा, यदिवाऽतीताः-सामस्त्येनातिक्रान्ताः अथोः
१ प्रत्याख्याति आहारं चतुर्विधं नियमाद् गुरुसमीपे। इङ्गितदेशे तथा चेष्टामपि नियमतः करोति ॥ १॥ उद्वर्तते परिवर्तते कायिक्याद्यपि आत्मना करोति । सर्वमिहात्मनैव नान्ययोगेन धृतिबलिकः ॥ २ ॥
**

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668