SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ ***** ** **** साकारं प्रत्याख्यान, साकारप्रत्याख्यानस्यान्यस्मिन्नपिकाले जिनकल्पिकादेरसम्भवात्, किं पुनर्यावत्कथिकभक्तमत्याख्यानावसर इति, इत्वरं हि रोगातुरः श्रावको विधत्ते, तद्यथा-यद्यहमस्माद्रोगात् पञ्चभैरहोभिर्मुक्तः स्यां ततो भोक्ये, नान्यथेत्यादि, तदेवमित्वरम्-इजितमरणं धृतिसंहननादिबलोपेतः स्वकृतत्वग्वर्तनादिक्रियो यावज्जीवं चतुर्विधाहारनियम | कुर्यादिति, उक्तं च-"पञ्चक्खइ आहारं चउब्विहं णियमओ गुरुसमीवे । इंगियदेसंमि तहा चिट्ठपि हु नियमओ कुणइ ॥१॥ उब्वत्तइ परिअत्तइ काइगमाईऽवि अप्पणा कुणइ । सव्वमिह अप्पणच्चिअ ण अन्नजोगेण धितिबलिओ ॥२॥” तच्चेङ्गितमरणं किम्भूतं किम्भूतश्च प्रतिपद्यत इत्याह-'तद्' इङ्गितमरणं सद्भयो हितं सत्यं, सुगतिगमनाविसंवादनात्सर्वज्ञोपदेशाच्च सत्य-तथ्यं, तथा स्वतोऽपि सत्यं वदितुं शीलमस्येति सत्यवादी, यावज्जीवं यथोक्तानुष्ठानाद्यथाऽऽरोपितप्रतिज्ञाभारनिर्वहणादित्यर्थः, तथा 'ओजः' रागद्वेपरहितः, तथा 'तीर्णः' संसारसागरं, भाविनि भूतवदुपचारात्तीर्णवत्तीर्ण इत्यर्थः, तथा 'छिन्ना' अपनीता 'कथं' कथमपि या 'कथा' रागकथादिका विकथारूपा येन स छिन्नकथंकथः, यदिवा कथमहमिङ्गितमरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा या कथा सा छिन्ना येन स छिन्नकथंकथः, दुष्करानुष्ठानविधायी हि कथंकथी भवति, स तु पुनमहापुरुषतया न व्याकुलतामियादिति, तथा आ-समन्तादतीव इताज्ञाता परिच्छिन्ना जीवादयोऽर्थी येन सोऽयमातीतार्थः आदत्तार्थो वा, यदिवाऽतीताः-सामस्त्येनातिक्रान्ताः अथोः १ प्रत्याख्याति आहारं चतुर्विधं नियमाद् गुरुसमीपे। इङ्गितदेशे तथा चेष्टामपि नियमतः करोति ॥ १॥ उद्वर्तते परिवर्तते कायिक्याद्यपि आत्मना करोति । सर्वमिहात्मनैव नान्ययोगेन धृतिबलिकः ॥ २ ॥ **
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy