________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥२८६॥
प्रयोजनानि यस्य स तथा, उपरतव्यापार इत्यर्थः, तथा आ-समन्तादतीव इतो-गतोऽनाद्यनन्ते संसारे आतीतः न || विमो०८ आतीतः अनातीतः, अनादत्तो वा संसारो येन स तथा, संसारार्णवपारगामीत्यर्थः, स एवम्भूत इङ्गितमरणं प्रतिपद्यते,
उहेशका विधिना 'त्यक्त्वा' प्रोज्झ्य स्वयमेव भिद्यते इति भिदुरं-प्रतिक्षणविशरारं 'कार्य' कर्मवशाग्रहीतमौदारिकं शरीरं त्यक्त्वा, तथा 'संविधूय' परीषहोपसर्गान् प्रमथ्य 'विरूपरूपान्' नानाप्रकारान् सोढा 'अस्मिन्' सर्वज्ञप्रणीत आगमे 'विस्रम्भणतया' विश्वासास्पदे तदुक्तार्थाविसंवादाध्यवसायेन भैरवं भयानकमनुष्ठानं क्लीबैर्दुरध्यवसमिङ्गितमरणाख्यमनुचीर्णवान्अनुष्ठितवानिति, तच्च तेन यद्यपि रोगातुरतया व्यधायि तथापि तत्कालपर्यायागततुल्यफलमिति दर्शयितुमाह-'त-18 वापि' रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि, न केवलं कालपर्यायेणेत्यपिशब्दार्थः, 'तस्य' कालज्ञस्य भिक्षोरसावेव कालपर्यायः, कर्मक्षयस्योभयत्र समानत्वादिति, आह च–सेवि तत्थ वियंतिकारए' इत्यादि पूर्ववद्गतार्थम् , इतिब्रवीमिशब्दावपि क्षुण्णार्थाविति विमोक्षाध्ययनस्य षष्ठोद्देशकः समाप्तः॥
| उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके एकत्वभावनाभावितस्य धृतिसंहननाद्युपेतस्येङ्गितमरणमभिहितम् , इह तु सैवैकत्वभावना प्रतिमाभिनिष्पाद्यत इतिकृत्वाऽतस्ताः प्रतिपा-14 द्यन्ते, तथा विशिष्टतरसंहननोपेतश्च पादपोपगमनमपि विदध्यादित्येतच्चेत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्-1
जे भिक्खू अचेले परिवुसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं तणफासं .
CARROR
॥२८६॥