SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए, हिरिपडिच्छायणं चऽहं नो संचाएमि अहिआसित्तए , एवं से कप्पेइ कडिवंधणं धारित्तए ॥ (सू० २२३) यो भिक्षुः प्रतिमाप्रतिपन्नोऽभिग्रहविशेषादचेलो-दिग्वासाः 'पर्युषितः' संयमे व्यवस्थितो 'णम्' इति वाक्यालङ्कारे 'तस्य' भिक्षोः 'एव'मिति वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा-शक्नोम्यहं तृणस्पर्शमपि सोढुं धृतिसंहननाद्युपेतस्य वैराग्यभावनाभावितान्तःकरणस्यागमेन प्रत्यक्षीकृतनारकतिर्यग्वेदनाऽनुभवस्य न मे तृणस्पर्शो महति फलविशेषेऽभ्युद्यतस्य किञ्चित् प्रतिभासते, तथा शीतोष्णदंशमशकस्पर्शमधिसोदुमिति, तथा एकतरान अन्यतरांश्चानुकूलप्रत्यनीकान् विरूपरूपान् 'स्पर्शान्' दुःखविशेषानध्यासयितुं-सोढुमिति, किं त्वहं ही-लज्जा तया गुह्यप्रदेशस्य प्रच्छादनं हीप्रच्छादनं, तच्चाहं त्यक्तुं न शक्नोमि, एतच्च प्रकृतिलज्जालुकतया साधनविकृतरूपतया वा स्यात्, एवमेभिः कारणैः 'से' तस्य 'कल्पते' युज्यते 'कटिबन्धन' चोलपट्टकं कर्तुं, स च विस्तरेण चतुरङ्गलाधिको हस्तो दैर्येण कटिप्रमाण इति गणनाप्रमाणेनैकः, पुनरेतानि कारणानि न स्युः ततोऽचेल एव पराक्रमेत, अचेलतया शीतादिस्पर्श सम्यगधिसहेतेति ॥ एतनतिपादयितुमाह अदुवा तत्थ परक्कमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउफासा
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy